SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ चथर्तुः सर्गः J दाण्डाजिनिकानुपद्यन्वेष्टा ' इत्यनुपदीत्यन्वेष्टरि निपातः । मृत्युव्याघ्रः व्याघ्रतुल्यः मृत्युः । मृत्युर्व्याघ्रः इव मृत्युव्याघ्रः । ' व्याघ्रादिभिरुपमेयोऽतद्योगे ' इति सः वामं प्रतीपं । प्रतिकूलमित्यर्थः । ' वामौ वस्गुप्रतीपौ' इत्यमरः । " वामो वक्त्रे मनोहरे' इति घनञ्जयः । अभिलषति काङ्क्षति । यथा व्याघ्रः स्वभक्ष्यस्य प्रतिकूल मरणमभिकाङ्क्षति तथाऽयं मृत्युर्मर्त्यस्य प्रतीपं मरणमभिलषतीति भावः । इतः एतस्मात्कारणात् । यतो मृत्युर्मर्त्यस्य मरणमभिलषति ततः इत्यर्थः । कुशलकलितं क्षेमसहितम् । ' पर्याप्ति-क्षेम - पुण्येषु कुशलं शिक्षिते त्रिषु ' इत्यमरः | आयुष्मत्त्वं दीर्घजीवित्वम्। जैवातृकत्वमायुष्मत्त्वमित्यनर्थान्तरत्वम् । अत्र भूम्न्यर्थे मतुः । इह अत्र भोक्तव्यविषये ननु निश्चितं । नन्वत्रावधारणे । ननु प्रश्नावधारणे । नन्वनुज्ञावितर्कमन्त्रेष्वनुनये ननु ' इति विश्वलोचने । आशाधि काङ्क्षतात् । आशास्विच्छायामित्यस्य धोर्लोटि रूपम् । सुलभविपदां प्रयत्नानुपस्थापितोपप्लवानां । कारणमन्तरेण येषां पापकर्मोदयेनानर्थाः प्राप्तास्तेषामित्यर्थः । प्राणिनां देहिनां विषये एतदेव कुशलकलितमायुष्मत्वमेव नित्यं सततं पूर्वाशास्यम् प्रथममाशंसनीयम् । व्याः' इत्यावश्यकत्वस्य गम्यमानत्वाद्व्यः । एतद्भोक्तव्यजन विषयं कुशलं त्वयाssकाङ्क्षणीयमिति शम्बरासुराभिप्रायः । 6 f As the object of enjoyment has presented itselt [without any efforts on your part ], you should give up indifference. As the tiger-like death, following on the heels to make search [ for its prey ], wishes to do evil thing, you should verily desire for a long-life along with prosperity, for this very thing is to be necessarily desired for with reference to the living beings whom calamities befall in an easy manner. सैपा बाला प्रथमकथिता पूर्वजन्मप्रिया ते पश्यायाता रहसि परिरभ्याऽनुमोदं नयेत्त्वाम् | अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं सास्त्रेणास्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन ॥ २५ ॥ ३६७ अन्वय :-- [ या ] प्रथमकथिता [ या ] ते पूर्वजन्मप्रिया सा एषा बाला आयाता; पश्य । [ सा ] तनुना गाढतप्तेन सास्रेण उत्कण्ठितेन [ स्वेन ] अङ्गेन तनुं - अद्रवं अविरतोत्कण्ठं [ ते ] अङ्गं रहसि परिरभ्य त्वां अनुमोदं नयेत् । सैषेत्यादि । या प्रथमकथिता पूर्वं वर्णिता । पूर्वं श्लोकवर्णितेत्यर्थः । या ते तव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy