________________
३६२
[ पार्धाभ्युदये
सीमन्तिनीनामागमनमित्यर्थः। सङ्गमात् अन्योन्यं साक्षाद्यन्मिलनं तस्मात् किश्चित् ईषत् ऊनः न्यूनः । कान्तासङ्गमसदृशः इत्यर्थः । एताः कलकष्ठ्यः, आलोकनीयसौन्दर्याः, सुसौरभवदनाः, स्पृश्याघ्रायशरीराः भवत्कान्ताया उपान्तात्समुपागताः। एतास्त्वयि कामोत्पत्तेनिमित्तभूताः। एतासामुपगमः कान्तेव समागमसुखजननः, तस्य कामोत्पत्तिनिबन्धनत्वात्। अतः कान्तोपान्तात्तत्सुहृदुपगमः अतः साक्षात्कान्तासमागमसम एव, कान्तासमागमवत्तस्यापि कामोत्पत्तिनिमित्तत्वात् । अतस्त्वया कान्तासमागमार्थमाचर्यमाणं तपो विहाय गेयादावत्र दत्तावधानेन भाव्यमिति शम्बरासुराभिप्रायः।
___Their song (or singing ) worthy of giving audiance, their eyegladdening beauty worthy of being perceived, their fragrance of (their) months worthy of being drunk, their body worthy of being touched and smelt are the very suitable means of rousing your passion. This is actually (directly) meeting together, (for) arrival of friends coming from one's own beloved is a little less than an actual meeting. तस्माद्वासः किसलयमृदु त्वं मुखस्थायि दिव्यं
ताम्बूलं च प्रणयमचिरायोषितां मानयोच्चैः । व्यर्थक्लेशां विसृज विरसामार्यवृत्तिं मुनीनां
तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुम् ॥ २१ ॥
अन्वयः - आयुष्मन् मम वचनात् च आत्मनः उपकर्तुं च तस्मात् योषितां किसलयमृदु वासः, मुखस्थायि दिव्यं ताम्बूलं, प्रणयं च अचिरात् उच्चैः मानय; मुनीनां व्यर्थक्लेशां तां विरसां आर्यवृत्ति विसृज ।
तस्मादित्यादि । आयुष्मन् जैवातृक ! 'जैवाकृतः स्यादायुष्मान् ' इत्यमरः। मम वचनात् च मदीयोक्तेः। मदुक्तिमनुसृत्येत्यर्थः। आत्मनः स्वस्य उपकर्तुं च हितं सम्पादयितुम् । स्वहितं कर्तुमित्यर्थः । तस्मात् कान्तोपान्तात् सुहृदुपगमो यतः कान्तया सङ्गमात्किाञ्चदनस्ततः । योषितां अङ्गनानाम् । 'स्त्री नारी वनिता मुग्धा भामिनी भीरुरङ्गना । ललना कामिनी योषिद्योषा सीमन्तिनी वधूः ' इति धनञ्जयः । किसलयमृदु किसलयं पल्लव इव मृदु कोमलं। पल्लववत्कोमलमित्यर्थः । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । 'सामान्येनोपमानं' इति सः । वासः वस्त्रम् । 'वस्त्रमाच्छादनं वासश्चलं वसनमंशुकम्' इत्यमरः । मुखस्थायि मुखे अभीक्ष्णं तिष्ठतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org