SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ] ३६३ मुखस्थायि । मुखे स्थितमित्यर्थः । ' व्रताभीक्ष्ण्ये ' इत्याभीक्ष्ण्ये गम्यमाने णिन् । दिव्यं दिवि जातं भवं वा दिव्यम् । अतिशयेनोत्कृष्टमित्यर्थस्तस्यालौकिकत्वेन प्रतिपादनात् । 'सुप्रात्प्रत्यपाग्भ्यां यः ' इति शेषेऽर्थे यः । ताम्बूलं सुधापूग कर्पूरकश्मीरजयुक्तताम्बूली पत्रनिबद्धां चर्वितां वीटिकाम् । प्रणयं च रतिः । प्रेमेत्यर्थः । अचिरात् शीघ्रं उच्चैः अत्यर्थं मानय सम्भावय । मुनीनां तपोधनानां तां लोकप्रसिद्धां व्यर्थक्लेशां व्यर्थो विफलः क्लेशः परीषहजयार्थ प्रावृडादौ तरुतलादिप्रदेशे निषदनेन जनितं शारीरं मानसं च दुःखं यस्यां सा । ताम् । सम्यक्चारित्राराधनजनितसौख्यस्य पारलौकिकत्वादप्रत्यक्षत्वात्तदर्थाचरिततपश्चरणजनितक्लेशानां वैफल्यमिति कमठचरशम्बरासुराभिप्रायः । विरसां विगलितानन्दां प्रणयविकलां । करुणा विकलां वा । मुनिचर्याया: कायक्लेशवा हुस्यादानन्दवैकस्यं स्त्रीसम्पर्कवैकस्यात्प्रणयविकलत्वं शरीरक्लेशकरत्वाच्च विरसत्वमध्यवसेयम् । आर्यवृत्ति सतां पूजनीयां चर्याम् । अर्यते सद्भिः पूज्यते इत्यार्या | आर्याऽभ्यर्हितेत्यर्थः । ' पुंस्यायें सविदल्ले स्यादार्यस्त्वभ्यर्हिते त्रिषु ' इति विश्वलोचने । सा चासौ वृत्तिश्चर्या च आर्यवृत्तिः । ताम् । विसृज परिहर | मुनिचर्यं परित्यज्य स्त्रीसभ्भोगजनितसुखमनुभवेत्यसुराभिसन्धिः Oh long-lived one in my name and to benefit yourself you should, for that reason, immediately, highly respect the garments of those women, delicate like young and tender foliage, the charming. Tambul in their mouths and their love [ for you ]; you should give up. that welknown pious conduct of sages, void of pleasure [and ] consi sting in fruitless strenuous efforts. श्रेयोमार्गः किल मुनिवरैः सेव्यते मोक्षहेतोः सौख्यं द्वेधा सुरयुवतिजं मुक्तिलक्ष्म्याश्रयं च । दूरे मुक्ति: सुलभमितरत्सेव्यमन्योऽपि विद्वान् ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः ॥ २२ ॥ अन्वयः - श्रेयोमार्गः मुनिवरैः सौख्यहेतोः किल सेव्यते । सौख्यं सुरयुवतिज मुक्तिलक्ष्म्याश्रयं च [ इति ] द्वेधा । दूरे मुक्तिः । इतरत् सुलभं सेव्यं [ च ] | अन्यः अपि रामगिर्याश्रमस्थः तव विद्वान् सहचरः एवं ब्रूयात् । C श्रेयोमार्ग इत्यादि । श्रेयामार्गः निःश्रेयसप्राप्तिसाधनः संयमः । श्रेयो निःश्रेयसामृतम्' इत्यमरः । एतदनयोरस्माद्वा प्रशस्यं श्रेयः । प्रशस्यस्य श्रः 4 " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy