________________
३६०
तत्पारुष्यप्रहरणमिदं भेषजं विद्धि गेयं श्रोष्यत्यस्मात्परमवहितं सौम्य ! सीमन्तिनीनाम् ॥ १९ ॥
अन्वयः
सौम्य ! ते श्रोत्रं मदुक्तां व्यक्ताकृतां समरविषयां सङ्कथां नो शृणोति (इति) परुषपवनैः दूषितं मन्ये । इदं सीमन्तिनीनां गेयं अवहितं पारुष्यप्रहरणं परं भेषजं विद्धि; अस्मात् तत् श्रोष्यति ।
[ पार्श्वाभ्युदये
-
Jain Education International
1
,
C
"
मन्ये इत्यादि । सौम्य ! हे साधो ! हे अनुग्र इति वा । भगवद्धदयक्षोभजननसमथैर्नानाविधैरुच्चावचैरुपायैर्नितरां कमठचरेण शम्बरासुरेण पीडितस्य सतोऽपि भगवतोऽस्पृष्टक्रोधत्वात्सौम्येत्युक्तिः कमठचरस्य यथार्थभावप्रद्योतिनी । सोमो देवतास्येति सौम्यः । ' कसोमाट्ट्ट्यण' इति देवतार्थे ट्यण् । अनुग्रार्थे त्वयं शब्द उपचारा1 प्रयुज्यते । बुधे सौम्योऽथ वाच्यवत् । बौद्ध मनोरमेऽनुग्रे पामरे सोमदैवते ॥ इति विश्वलोचने । ते तव श्रोत्रं श्रवणेन्द्रियं मदुक्तां मया कथितां व्यक्ताकूतां विशदाभिप्रायां । व्यक्तः विशदः आकूतः अभिप्रायः यस्याः सा । ताम् । समरविषयां युद्धसम्बन्धिनीं । समरः रणः विषयः गोचरः यस्याः सा । ताम् । ' अस्त्रियां समरानीकरणाः कलहविग्रहौ' इत्यमरः । ' विषयो गोचरे देशे इन्द्रियार्थेऽपि नीवृति | प्रबन्धाद्यस्य यो ज्ञातः स तस्य विषयः स्मृतः || ' इति विश्वलोचने । सङ्कथां समीचीनं भाषणं नो न शृणोति आकर्णयति यतस्ततस्ते श्रोत्रं परुषपवनैः निष्ठुरप्रभञ्जनैः । परुषाः निष्ठुराः व्याघातकृतश्च ते पवनाः प्रभञ्जनाश्च परुषपवनाः । तैः । " परुषं कर्बुरे रूक्षे त्रिषु निष्ठुरवाच्यपि' इति विश्वलोचने । नभस्वद्वातपवन पवमानप्रभञ्जनाः । प्रकम्पनो महावातो झञ्झावातः संवृष्टिक: ' इत्यमरः । दूषितं जनितदूषणं । ' दोषो णौ ' इति दुषेण परत उङ ऊत् । इति मन्ये जाने । इदं गीयमानं सीमन्तिनीनां योषितां । भवत्कान्तोपान्तात्समागतानां स्त्रीणामित्यभिप्रायः । 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः इत्यमरः । सीमन्तः केशवेशोऽस्त्यस्या सीमन्तिनी । गेयं गायनम् । ' गेयस्तु त्रिषु गातव्ये गेयः स्याद्द्वायने पुमान्' इति विश्वलोचने । पदस्वरतालावधानात्मकं गान्धर्वरागगीत्यादिरूपं गीतमित्यर्थः । अवहितं श्रवणगोचरतां नीतं सत् पारुष्यप्रहरणं परुषपवनाघातजनितं श्रोत्रेन्द्रियश्रवणसामर्थ्यप्रतिद्दन्तु यच्छ्रवणयोः पारुष्यं नैष्ठुर्य तस्य प्रकर्षेण परिहर्तृ । अत्र पारुष्यपदेन श्रवणयोर्बधिरिमा ग्राह्यः । प्रहरतीति प्रहरणम् । 'व्यानबहुलम् ' इति कर्तर्यनट् । परं अनुत्तमं । साधिष्ठमित्यर्थः । भेषजं औषधं । भेषं रोगभयं जयतीति भेषजं । डः। ' भेषजैौषधभैषज्यान्यगदो जायुरित्यपि ' इत्यमरः । विद्धि जानीहि । अस्मात्
6
"
1
For Private & Personal Use Only
www.jainelibrary.org