________________
चतुर्थः सर्गः]
३५९
अन्वय :- अस्मदीये सङ्ख्ये सुभटविषयां सङ्ख्या पूरयन् त्वं यदा भीति हित्वा वीरशय्यां अधिशयितः स्याः तदा त्वां वीक्ष्य सम्भाव्य च उत्कण्ठोच्छु सितहृदया अपिहितरसा एषा प्रत्यासीदति ।
सय इत्यादि। अस्मदीये आस्माकीने । अस्माकमिदमस्मदीयम् । तस्मिन् । अस्मदस्त्यदादित्वात् 'त्यदादिः' इत्यनेन दुसज्ञत्वाद् ‘दोश्छः' इति छः । सङ्ख्ये युद्धे । सम्पूर्वस्य चक्षेर्वधार्थत्वात्सङ्ख्यशब्दो युद्धार्थः। सञ्चक्षतेऽस्मिन्सङ्ख्यम् । 'युद्धमायोधनं जन्यं प्रधनं प्रविदारणं । मृधमास्कन्दनं सङ्ख्यं समीकं साम्परायिकम्' इत्यमरः । सुभटविषयां शूरसैनिकसम्बधिनी सङ्ख्यां गणनां पूरयन् पूर्णता प्रापयन् त्वं भवान् यदा यस्मिन्काले भाति भयं हित्वां परिहृत्य वीरशय्यां वीरशयनम् । वीरोचितशयनमित्यर्थः । वीराः शूराः युयुधानाः शेरतेऽस्यामिति वीरशय्या । ताम् । अधिशयितः प्रसुप्तः । ' कर्मोवाधेः शीथासः' इत्यधिपूर्वस्य शीङः आधारस्य कर्मत्वे 'कर्मणीप्' इति इप् । स्याः भवेः । भविष्यसीत्यर्थः । तदा तस्मिन्काले त्वां भवन्तं वीक्ष्य विलोक्य सम्भाव्य च सत्कृत्य च उत्कण्ठोच्छ्रसितहृदया त्वदर्शनजनितीत्सुक्येन विकसितचित्ता । उत्कण्ठया त्वद्दर्शनजनितौत्सुक्येन उच्छृसितं विकसितं हृदयं चित्तं यस्याः सा । अपिहितरसा प्रकटीकृतानुरागा। न पिहितः प्रच्छादितः अपिहितः । अपिहितः प्रकीकृतः रसः अनुरागः यया सा। 'रसः स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे । पारदे धातुवीर्याम्बुरागे गन्धरसे तनौ' इति विश्वलोचने । एषा वीरश्रीः त्वां प्रत्यासीदति एव सुनिश्चित प्रत्यासत्स्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति वर्तसामीप्याद्भविष्यर्थे लट् । समराजिरमाश्रितं भवन्तं शौर्य शीघ्रं श्रयिष्यति । अतो युद्धासन्नद्धो भवेति शम्बरासुराभिप्रायः ।
In a battle that will be offered by you and me, when you, completing the number of best warriors, having abandoned fear, will be having recourse to the battle-field, then this [i. e. the goddess of the brave], with her heart throbbing owing to her yearning for you, on Seeing and greeting yon, displaying her love [ for you], will surely resort to you very soon [ i. e. the very moment you will have recourse to the battle-field ).
मन्ये श्रोत्रं परुषपवनैषितं ते मदुक्तां
व्यक्ताकूतां समरविषयां सङ्कथां नो शृणोति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org