________________
३५६
[ पार्श्वाभ्युदये
३
सुकानि कर्तुं शक्ता [सा] मम अपि नवघनघटा यत् आत्तनाशा [ तत् ] अयं सः प्रकटमहिमा विद्यासिद्धः ध्रुवं अभिमनाः योगी दुर्विभेदः लक्ष्यते ।
6
,
सोऽयमित्यादि । या नवघनघटा अध्वगानां पथिकानां । अध्वानं गच्छतीत्वध्वगः । 'अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ' इत्यमरः । मनांसि चेतांसि मन्द्रस्निग्धैः गम्भीरैः श्रुतिमधुरैश्च । मन्द्राः गम्भीराश्च ते स्निग्धाः श्रुतिमधुराच मन्द्रस्निग्धाः । तैः । मन्द्रस्तु गम्भीरे ' मसृणं स्निग्धं इत्युभयत्राप्यमरः । कुब्जखञ्जादिवत् ' विशेषणं विशेष्येणेति ' इति सः । ध्वनिभिः गर्जितैः । अबलावेणिमोक्षोत्सुकानि स्वस्वकमनीयकामिनी केशबन्धविशेषमोचनोत्कण्ठितानि । अबलानां स्वीयस्वीयकमनीयकामिनीनां वेणयः केशबन्धविशेषाः अबलावेणयः । स्वक्रान्तविरहसंसूचनार्थमबला भिरेकवेणिविशेषरूपः केशबन्धो विरच्यते इति सर्वजनप्रसिद्धम् । 'वेणी नदीनां सङ्गे स्यात्केशबन्धान्तरेऽपि च । देवताडेऽपि वेणी स्त्री ' इति विश्वलोचने । तासां मोक्षो मोक्षणम् । मोचनमित्यर्थः । तत्र उत्सुकानि सञ्जातोत्कण्ठानि । कर्तुं विधातुं शक्ता सामर्थ्य सम्पना सा ममापि मायया मयैक विरचिताऽपि । नवाया घनाघनघटाया मत्कर्तृकत्वादन्येन केनचिदपि विनाशयितुमशक्यत्वेपि सानेन विनाशं प्रापितेत्याभिप्राथोऽपिना व्यज्यते । नवघनघटा प्रावृट्कालारम्भे शरनिकरसम्भृता । नवा प्रत्यग्रा घनघटा वारिवाहानां समूहः । घनानां मेघानां वटा समूहः घनघटा | नवा चासौ घनघटा च नवघनघटा । यद्वा नवाः प्रत्यग्राः प्रावृडारम्भकाले सम्भूतत्वाच्च घना मेघाः नवघनाः । तेषां घटा समूहः नवघनघटा । यत् यस्मात्कारणात्। आत्तनाशा स्वीकृतिविनाशा । विलयं प्राप्तेत्यर्थः । तस्मात्कारणात् अयं सः स एषः । मुनिरित्यर्थः । प्रकटमहिमा आविर्भूतमाहात्म्यः । प्रकटः आविर्भूतः महिमा माहात्म्यं यस्य स प्रकटमहिमा | प्रकटीभूतालौकिक सामर्थ्यः इत्यर्थः । मदीयमायाप्रादुर्भावितप्रत्यग्रघनघटायाः केनचिदप्यप्रकटितमहिम्नाऽविनाश्यत्वेऽपि विनाशदर्शनादयमवश्यमेव प्रकटीतालौकिकसामर्थ्य इति कमठचरशम्बरासुराभिप्रायः । विद्यासिद्धः प्रकटीभूतशुद्धज्ञानघनैकस्वभावः । विद्या आत्मस्वभावभूतं शुद्धमात्मज्ञानं सिद्धं पूर्णत्वेन प्रकटतां प्राप्तं यस्य सः । ' वाहिताग्न्यादिषु इति सः । ध्रुवं मोक्षं । ध्रुवः क्लीबे शिवे शङ्कौ मुनौ योगे वटे वसौ । ध्रुवं तु निश्चिते त नित्यनिश्चलयोस्त्रिषु ' इति ' शिवो हरे योगभेदे वेदे कीलेऽपि वालुके । गुग्गुले पुण्डरीकद्रौ शिवं मोक्षे सुखे जले ' इति च विश्वलोचने । ध्रुवशब्दस्य योगसुखरूपार्थद्वयमप्यत्र सम्भवति । अभिमनाः अभिगतं मनो यस्य सः । प्रपर्णवदवसः । अतिप्रस
".
f
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org