________________
चतुर्थः सर्गः]
३५५ सद्य इत्यादि । अहो महदाश्चर्यम् । ' अहो हीति विस्मये ' इत्यमरः । यः जलदकालः । योषितां स्त्रीणां जीवनाथ प्राणधारणार्थं । प्रोषितभर्तृकाणां विप्रलम्भ • जनितमरणावस्थानां प्राणधारणार्थमित्यर्थः । पथि अध्वनि श्राम्यतां मार्गाक्रमणजनितखेदखिन्नानां प्रोषितानां नानाकार्यवशाद्दरदेशं गतानां वृन्दानि समूहान् । ‘समुदाथः समुदयः समवायश्चयो गणः । स्त्रियां तु संहृतिवन्दं निकुरम्वं कदम्बकं' इत्यमरः। त्वरयति सत्वरं गमयति । 'चल्यद्यर्थात्' इति मं । यः (च) ध्वान्तस्य एव तिमिरस्यैव प्रतिनिधिः मुख्यध्वान्तसदृशः । 'प्रतिमानं प्रतिबिम्ब प्रतिमा प्रतियातना प्रतिच्छाया । प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्' इत्यमरः । आरुद्धद्युः कालमेघव्याप्तनभोदेशः। आरुद्धा कालमेघैः व्याप्ता द्यौः नभोदेशः यस्मिन् येन वा। सः। 'द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नभोऽन्तरिक्ष गगनमनन्तं सुरवर्त्म खं' इत्यमरः। जलदसमयः वर्षाकालः । मया शम्बरासुरेण कालमेघैः कार्णायसतुल्यकालवर्णमेघैः सद्यः सपदि क्लप्तः विरचितः सः अपि स तादृशोपि जलदसमयः अनेन ध्यानकतानेन मुनिवरेण्येन आत्मशक्त्या स्वात्मसामर्थेन सहसा अततिं निर्मितिकालमात्रे एव वा । 'तत्कालमात्रे सहसा सहसाऽऽकस्मिकेऽपि च ' इति विश्वलोचने । व्यवधि व्यच्छेदि । 'वध हिंसायां' इत्यस्माद्विपूर्वाद्धोर्लिङ् । कालायसकालवर्णकालमेघजनितः प्रावृट्कालोऽनेन जनितमात्र एवात्मसामर्थेन विलयं नीत इत्यहो आश्चर्य महदिति शम्बरासुरः स्वसामर्योत्पन्नाखर्वगर्वोऽपि मनसि विचिन्तयतीति विज्ञेयम् ।
Ah ! even the rainy-season ( monsoon), the representative of the dark alone, pervading the sky, expediting the masses of those gone abroad, moving laboriously on their ways [ to homes ] to keep the lives of their better-halves from falling off, [ and ] brought into being at once by me by means of black clouds, is at once brought to nothing by this through the agency of his soul-power.
सोऽयं योगी प्रकटमहिमा लक्ष्यते दुर्विभेदो
विद्यासिद्धो ध्रुवमभिमना यन्ममाप्यात्तनाशा । कर्तुं शक्ता नवधनघटा या मनांस्यध्वगानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावणिमोक्षोत्सुकानि॥ १६ ॥ अन्वयः- या अध्वगानां मनांसि मन्द्रस्निग्धैः ध्वनिभिः अबलावेणिमोक्षो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org