________________
३५४
[ पार्धाभ्युदये प्राप्तुं जनयितुं वा । ' ध्वर्थवाचोऽर्थात् कर्मणि' इति ध्वर्थवाचः कर्मण्यप् । तसेः कार्थत्वे प्रिययुवत्याः सुखं प्राप्तुमित्यर्थः । तत्तार्थत्वे च प्रिययुक्त्या मनसि सुखं जनयितुमित्यर्थः । ' मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः' इत्यमरः । यदि चेत् जीवने जीविते ते भवतः किश्चित् ईषत् उत्सुकत्वं प्रसक्तत्वं । 'प्रसितोत्सुकावबद्धैर्भा च' इत्युत्सुकेन योगे ईप् । अस्ति विद्यते तत् तर्हि । हस्तं करं उत्क्षिय उद्यम्य मम मदीयौ पादौ चरणौ आश्लिष्य उपगुह्य विहतगरिमा विनष्टामाहात्म्यः। विहतः विनाशं नीतः गरिमा महिमा यस्य येन वा सः । गुरुशब्दात् 'पृथ्वादेर्वेमन्' इति भावेऽर्थे इमनि परतः 'बहुलगुरूरवृद्धतृप्रदीर्घवृन्दारकाणां बंहिगर्ववर्षित्रप्द्राघवृन्द्राः' इति तस्य स्थाने गरादेशः । त्वं भवान् मा भैषीः भयाक्रान्तस्वान्तो मा भूः।' माङिलुङ्' इति माङो वाक्त्वाद्धोलङि 'लुङ्लङ्लङयामाङाट्' इति गोरडागमप्रतिषेधः माङयोगसद्भावात् । मनसि स्वान्तःकरणे निहितैः निवेशितैः तत्सन्देशैः राजराजराजधानीस्थितभवत्प्रियपत्नीवसुन्धराचर्या प्रेषितैर्वाचिकैः त्वत्समीपं भवत्सकाशं आगतं प्राप्तं मां शम्बराभिधान कमठचरं मां त्वं भवान् अन्यथा अन्यप्रकारेण । शात्रवाक्रान्तस्वान्तत्वेनेत्यर्थः। मा गृही: मा जानीहि । अस्त्रशून्ये समालिङ्गितमचरणयुगले त्वयि न शस्त्रं वोढास्मीति त्वं भैषीः । प्राम्भवीयभवत्प्रियाङ्गनासम्प्रेषितसन्देशं मनसि निधाय भवत्सनिधिमागतं मां मित्रं विद्धीति शम्बरासुराभिप्रायः । एवं सामवचनैः शम्बरासुरः भगवत्समाधेः भङ्ग चिकीर्षति इत्यवसेयम् । ____If you are a bit fond of continuing [ your worldly] life [further] for giving pleasure to the youg woman, your beloved, [ or for deriving pleasure from the young woman, dear to you ], you, with your self-conceitedness dissipated by raising your hands [ and ] embracing my feet, need not be afraid [ of me ]; do not think otherwise of me, approched you with her message, kept in mind. सद्यः क्लसो जलदसमयो यो मया कालमेघै
रारुद्धधुर्व्यवधि सहसा सोऽप्यनेनात्मशक्त्या । ध्वान्तस्यैव प्रतिनिधिरहो योषितां जीवनार्थ
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानाम् ॥१५॥ अन्वयः-- अहो ! यः योषितां जीवनार्थ पथि श्राम्यतां प्रोषितांना वृन्दानि त्वरयति, यः (च) ध्वान्तस्थ एव प्रतिनिधिः आरुद्धद्युः जलदसमयः मया कालमेधैः सद्यः क्लप्तः सः अपि अनेन आत्मशक्त्या सहसा व्यवधि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org