________________
चतुर्थः सर्गः]
३५७
क्तमनाः इत्यर्थः । योगी निर्विकल्पसमाधिसमभिरूढमनस्को मुनिः दुर्विभेदः निर्वि. कल्पसमाधेः कष्टप्रच्याव्यः। 'स्वीषदुसि कृच्छ्राकृच्छ्रे खः' इति खः । त्यस्य खित्त्वेऽपि पूर्वपदस्य झित्त्वान्न मुम् । लक्ष्यते ज्ञायते । दृश्यते इत्यर्थः । : Is this assemblage of fresh clouds, able to render the minds of travellars anxious for untying the hair, twisted into single unornamented braid and allowed to fall on their backs, of their beloved wives, by means of deep and charming thunders, has, though brought into being by myself, dispersed, this very sage, having superhuman power manifetsed in himself, possessing complete and flawless knowledge, having his mind concentrated upon salvation, absorbed in deep thinking, seems very difficult to be agitated.
इत्याध्यायन्पुनरपि मुनि सोऽभणीद्युद्धशौण्डो
वीरश्रीस्त्वामिह वनतरौ मन्मथाक्लेशमुक्ता । पश्यन्त्यास्ते दशमुखपुरोधानवृक्षे सती स्या
दित्याख्याते पवनतनयं मैथिलीवोन्मुखी सा ॥ १७॥
अन्वयः - इति आध्यायन् ' [या ] मन्मथक्लेशमुक्ता त्वां पश्यन्ती इह वनतरी आस्ते सा वीरश्रीः आख्याते दशमुखपुरोद्यानवृक्षे पवनतनयं [ पश्यन्ती ] उन्मुखी सती मैथिली इव स्यात् ' इति युद्धशौण्डः सः पुनरपि मुनिं अभणीत् ।
___ इतीत्यादि। इति पूर्वश्लोकोक्तप्रकारेण । 'इति हेतौ प्रकारे च प्रकाशाद्यनुकर्षयोः। इति प्रकरणेऽपि स्यात्समाप्तौ च निदर्शने' इति विश्वलोचने। आध्यायन विचिन्तयन् । या वीरश्रीः मन्मथाक्लेशमुक्ता मनःस्थैर्यभ्रंशजनकदुःखविकला कामवासनाकर्तृकक्केशरहिता पश्चबाणोन्मुक्तपौष्पबाणशल्यजनितवेदनानाकुला वा । मननं मत् । चेतनेत्यर्थः । 'हन्मन्यम्रम्नम्गम्वनतितनादेखं झलि' इति खम्। ङखे च तुगागमः। मथ्नातीति मथः। मतो मनसो मथः मन्मथः । मनोमन्थनकृदित्यर्थः। मन्मथश्वासौ आक्लेशो दुःखं मन्मथाक्लेशः । तेन मुक्ता मन्मथाक्लेशमुक्ता। यद्वा मन्मथस्य कामदेवस्याक्लेशेन मुक्ता रहिता । ' मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।' इत्यमरः । ' मन्मथः कामचिन्तायां कामदेवकपित्थयोः' इति विश्वलोचने । वीरश्यभीष्टस्य भवतः सामीप्याद्विप्रलम्भासम्भवात्त्वत्समागमोपलब्धेदृढप्रत्ययात्तन्मनसि कामचिन्ताया अप्रादुर्भावात्कामचिन्ताजनितदुःखप्रादुर्भावासम्भवात्तस्या मन्मथाक्लेशमुक्तत्वमवसेयम्। त्वां भवन्तं मरुभूतिचरं पार्श्वनाथयोगीन्द्रं पश्यन्ती विलोकयन्ती इह अत्र वनतरौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org