________________
३४८
[पार्धाभ्युदये कीर्ति च स्वां कुरु कुसुमितां स्वोद्यमाम्बुप्रसेकैः
सदल्ली वा प्रधनविषयैरुलतानां क्रमोऽयम् । कुर्यात् किनो नवजलमुचां कुंक्षतान्तामनेहा
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ॥१०॥
अन्वयः- स्वां कीर्तिं च सद्वल्ली वा प्रधनविषयैः स्वोद्यमाम्बुप्रसेकैः कुसुमितां कुरु । अयं उन्नतानां क्रमः। नवजलमुचा अनेहा क्षतान्तां कुं मालतीनां अभिनवैः जालकैः समं प्रत्याश्वस्तां नो कुर्यात् किम् ?
कीर्तिमित्यादि । स्वां आत्मीयां । ' स्वो ज्ञातावात्मनि स्वं तु त्रिष्वात्मीयेधनेऽस्त्रियाम्' इति विश्वलोचने । कीर्ति यशः । 'कीर्तिर्यशसि विस्तारे प्रसादेऽपि च कर्दमे' इति विश्वलोचने । चोऽत्र समुच्चये । सद्वल्ली वा शोभनां लतामिव । 'वल्ली तु व्रततिर्लता' इत्यमरः । समीचीना शोभना चासौ वल्ली लता च सद्वल्ली। तां । वा इवार्थेऽत्र । ' उपमायां विकल्पे वा' इत्यमरः । प्रधनविषयैः युद्धगौचरैः । युद्धसम्बन्धिभिरित्यर्थः । ' विषयो गोचरे देशे इन्द्रियार्थेऽपि नीति । प्रबन्धाद्यस्य यो ज्ञातः स तस्य विषयः मृतः॥' इति विश्वलोचने। 'प्रधनं दारुणे तङ्ख्ये' इत्यपि तत्रैव । प्रधनं युद्धं विषयः गोचरः येषां तैः । स्वोद्यमाम्बुप्रसेकैः स्वीयप्रयत्नजलसिञ्चनैः । स्वः स्वीयश्चासौ उद्यमः प्रयत्नश्च स्वोद्यमः । स एवाम्बु सलिलं । तस्य प्रसेकाः सिञ्चनानि । तैः । कुसुमितां सञ्जातपुष्पा । पुष्पितामित्यर्थः । तदस्य सञ्जातं तारकादिभ्यः इतः' इति सञ्जातार्थे इतः ।कुरु विधेहि । अयं एषः उन्नतानां
औन्नत्यभाजां । महतामूर्ध्वगामिनां चेत्यर्थः । क्रमः परिपाटी । 'क्रमः शक्तिपरी. पाटी चलने कम्पनेऽपि च ' इति विश्वलोचने । नवजलमुचां नूतनतडिद्वतां । जलं मुञ्चन्तीति जलमुचः । मेघाः इत्यर्थः। विप् । नवाः नूतनाश्च ते जलमुचश्च नवजलमुचः। तेषाम् । अनेहा कालः । वर्षतुप्रारम्भकाले प्रादुर्भूताः मेघाः इत्यर्थः । 'ऋदुशनस्पुरुदंशोऽनेहसां' इत्यनेहसः सौ परतः ङन् । क्षतान्तां क्षतमनोहरस्वरूपां । क्षतो विध्वस्तः अन्तः मनोहरं स्वरूपं यस्याः सा। ताम् । 'अन्तो नाशे मनोहरे। स्वरूपेऽन्तं मतं क्लीवं न स्त्री प्रान्तेऽन्तिके त्रिषु' इति विश्वलोचने। कुं मेदिनीं। 'कुः शब्दे ना भुवि स्त्रियाम् ' इति विश्वलोचने । मालतीनां जातीनां । 'मालती जातियुवति-' इति विश्वलोचने । अभिनवैः प्रत्यौः जालकैः कोरकैः । 'जालकः कोरके दम्भप्रभेदे जालिनीफले' इति विश्वलोचने । समं सह प्रत्याश्वस्तां पुनरुजीवितां । श्वसेः कर्तरि क्तः । 'जप्तश्वस्तापचितश्च' इतीडागमविकलो निपातः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org