________________
चतुर्थः सर्गः]
३४९ नो कुर्यात् किम् न करोति किम् । अपि तु करोत्येवेत्यर्थः । युद्धं कृत्वा स्वकीर्ति वृद्धिं नयस्वेत्यर्थः । ___And furnish your fame, resembling a beautiful creeper, with flowers, by means of sprays of water in the from of your exertions for a fight. This is the tradition of the elevated. Does not the season of new clouds refresh the earth, having its beauty spoiled, along with the fresh buds of the Malati creepers ?
मत्प्रातीप्यं समरशिरसि प्राप्य दृष्टावदानः
क्षीणायुस्त्वं कुरु सुरवधूं काञ्चिदापूर्णकामां। . द्यामारोहन्सहजमणिभाभूषितोऽम्भोद याने
विद्युदर्भे स्तिमितनयनां त्वत्सनाथे गवाक्षे ॥ ११ ॥ ___ अन्वयः- अम्भोद ! समरशिरसि मत्प्रातीप्यं प्राप्य दृष्टावदानः क्षीणायुः द्यां आरोहन् सहजमणिभाभूषितः त्वं विद्युद्गर्भे याने गवाक्षे त्वत्सनाथे स्तिमितनयनां काञ्चित् सुरवधू आपूर्णकामां कुरु । ___ मदित्यादि । अम्भोद मेघ । नैगमनयापेक्षया मेघेत्यभिधानं, सम्भाषणकाले पार्श्वभगवतोऽनुपात्तमेघाकारत्वात् । समरशिरसि रणाग्रभागे । 'अस्त्रियां समरानीकरणाः कलहविग्रहो' इत्यमरः । 'शिरस्तु मस्तके सेनाप्रभागेऽस्यप्रधानयोः' इति विश्वलोचने । मत्प्रातीप्यं मम प्रतिकूलतां । प्रतीपः प्रतिकूलः । तस्य भावः प्रातीप्यं । परिपन्थित्वमित्यर्थः । 'प्रतिकूलं तु विलोममपसव्यमपष्ठुरं । वामं प्रसव्यं प्रतीपं प्रतिलोममपष्टु च ' इति हैमेऽभिधानचिन्तामणौ । प्राप्य अधिगम्य । दृष्टावदानः अनुभूतमदसिकृतखण्डनकर्मा । दृष्टमनुभूतमित्यर्थः, धातूनामनेकार्थत्वात् । अवदानं खण्डनं। 'अवदानं मतमिति वृत्तकर्मणि खण्डने' इति विश्वलोचने । दृष्टं अनुभूतं अवदानं मदसिकृतत्वच्छरीरखण्डनं येन सः । 'दृष्टावधानः' इति योगिराजस्वीकृतपाठेऽपि पूर्वोक्त एवार्थः । परिवर्तितपाठस्य सुस्पष्टतयाऽर्थवाचकत्वात्स एव स्वीकृतः। अवधानशब्दः साहसार्थवाचको यथा तथाऽवदानशब्दोऽपि । 'अवधानं तु साहसम् ' इति धनञ्जयः ' साहसे द्वौ । अवधीयतेऽवधानम् । अवदानं च ' इति नाममालाटीकाकारश्च । क्षीणायुरिति पाठस्योत्तरत्राव्यवधानेन दर्शनाद् — दृष्टावदानः' इति पाठस्य साधुत्वात्स एवोररीकृतः । क्षीणायुः विनष्टमनुष्यजीवितकालः । मदसिघातकृतत्वच्छरीरखण्डनेन मृतिमितः इत्यर्थः । 'आयुर्जीवितकालो, ना जीवातुर्जीवनौषधम्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org