SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः] लक्ष्मीमित्यादि । स्ववपुषि आत्मीयशरीरे सती विद्यमानां समीचीनां वा क्षीणां क्षामतां प्राप्तां । कृशीभूतामित्यर्थः । 'क्ष्यः' इति कृतदीत्वात्क्षेस्ततकारस्य नः। 'प्रो नो णोऽभिन्ने' इति नस्य णः। लक्ष्मी वीर्थ । उद्यमाख्येन प्रयत्नाभिधेन । उद्यमः प्रयत्नः एव आख्या अभिधानं यस्य सः। तेन । दोषा बाहुना। 'भुजबाहू प्रवेष्टो दोः' इत्यमरः। प्रोत्थाप्य सञ्जीव्य । युधि युद्धे । युद्धं कर्तुमित्यर्थः । अलं समर्थः । 'अलं भूषणपर्याप्तिशक्तिवारणनिष्फले' इति विश्वलोचने । भव भवतात् । भवच्छरीरनिष्ठं सामर्थ्य भवतस्तपआराधनानिमग्नमानसत्वाद्यद्यपि क्षामतामितं तथापि तत्प्रयत्नेन प्रबोध्य युद्धाय शक्तो भवताद्भवानित्यभिप्रायः शम्बरासुरस्य । नवधनाः भूतनमेघाः । नवाः नूतनाश्च ते धनाः मेघाश्च नवधनाः । नवेति घनविशेषणं तेषां सलि. लसङ्कलत्वख्यापनार्थम् । धर्मतप्तक्षतां ग्रीष्म तापसन्त्रस्तां । धर्मस्य ग्रीष्मर्तोः तप्तं तापः धर्मतप्तं । 'धर्मः स्यादातपे ग्रीष्मे ऊष्मस्वेदजलेऽपि च ' इति विश्वलोचने । तप्तं तापः । 'नब्भावे क्तोऽभ्यादिभ्यः' इति भावे क्तः न च । तेन क्षता सन्त्रस्ता। ताम् । यद्वा धर्मेण ऊष्मणा तप्ता धर्मतप्ता । सा चाऽसौ क्षता च धर्मतप्तक्षता । ताम् । एनां क्षमा मेदिनी । 'गोत्रा कुः पृथिवी पृथ्वी क्षमाऽवनिर्मेदिनी मही' इत्यमरः। स्वजलकणिकाशीतलेन स्ववारिशीकरशीतलेन । स्वं स्वकीयं जलं वारि स्वजलं । मेघाधिकरणनिष्ठं जलमित्यर्थः। तस्य कणिकाभिः शीकरैः शीतलः स्वजलकणिकाशीतलः। तेन । कणः एव कणिका । 'कणोऽतिसूक्ष्मे धान्यांशे' इति विश्वलोचने । अनिलेन समीरणेन प्रोत्थाप्य हादयित्वा आश्रितानुग्रहः संश्रितरक्षणं । आश्रितानां आश्रयाथेमागतानां अनुग्रहः अभ्युपपत्तिः संरक्षणादिरूपाऽऽश्रितानुग्रहः। 'विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः' इत्यमरः। सतां सज्जनानां अर्थः कर्तव्यं इति इदं एतत् ननु एव । 'ननु प्रश्नावधारणे' इति विश्वलोचने । शंसन्ति सूचयन्ति । त्वदाश्रितायास्तपआराधनया क्षामतामितायाः वीरलक्ष्म्यास्त्वया प्रयत्नेन तां सञ्जीव्यावश्यमेवानुग्रहो विधेयः इत्यूचिवान् तथा च कृते प्रबुद्धया तया सहकृतो मरुभूतिचरः पार्थः समराजिरे कृतावतरणः सन् स्वहेतिहतिविषयतामेष्यतीत्यभिप्रायवाञ्छम्बरासुरः। Having roused to action the deteriorated goddess of valour resorting to your body, through the agency of your arm in the form of exertion, be perfectly qualified [or powerful ] for a fight. New clouds, having delighted this earth, troubled very much by the heat of the summer season, by means of wind rendered cool by the sprays of their water, verily announce 'Giving protection to the refugees is the duty of the good.' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy