SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ३४४ [ पार्श्वाभ्युदये [ ज्ञानं यस्याः सा । त्वयि भवति मूकावस्थां वाचंयमत्वं । अवाक्त्वमित्यर्थः । 'मूकस्ववाङ्मतो दीने ' इति विश्वलोचने । विदधती कुर्वाणा । सत्त्ववृत्ति प्राणानां प्रवृत्ति । प्राणव्यापारभित्यर्थः । 'सत्त्वं जन्तुषु न स्त्री स्यात्सत्त्वं प्राणात्मभावयोः । द्रव्ये बले पिशाचादौ सत्तायां गुणवित्तयोः । स्वभावे व्यवसाये च सत्त्वमित्यभिधीयते ' ' वृत्तिः प्रवृत्तौ वृत्तौ च' इत्युभयमपि विश्वलोचने । धैर्य वा । रुन्धती प्रतिबध्नन्ती । या ते या तव बुद्धिः मतिः । मनः हृदयं वेत्यर्थः । तां एनां बुद्धिं सावष्टाम्भं धैर्येण अन्वास्य प्रशाम्य परिहृत्य वा स्तनितविमुखः गर्जितपराङ्मुखः परिहृतगर्जनः इत्यर्थः । अर्धयुद्धे अर्धसङ्ग्रामे स्थिरः निश्चलः । अस्थिरः इति पाठे प्रक्षुब्धः इत्यर्थः । सन् भवन् भटतरः वीरतरः । ( भटः स्यात्पुंसि वीरे च विशेषे पामरस्य च' इति मेदिन्यां । प्रकृष्टः भटः इत्यर्थः । ' द्विविभज्ये तरः ' इति तरः । भव । सङ्ग्रामभीरुर्मा भूरित्यर्थः । वा किंवा याममात्रं प्रहरप्रमाणकालं यावत् । ' द्वौ यामप्रहरौ समौ ' इत्यमरः । सहस्व तितिक्षस्व । प्रहरप्रमाणकालादेव सङ्ग्रामः पूर्णतामेष्यतीति भावः । Having set aside courageously this state of your mind, afraid of my arrival, deprived of grasping capacity, reducing you to the state of speechlessness, obstructing the working of your vital airs [or obstructing the course of your courageous conduct (or behaviour )], you, averse to thundering, becoming steadfast [ or violent ] in the midcourse of fighting, should become a better warrior or have patience for a period of three bours. मा भूद्भीतिस्तव सुरभटत्रासिगर्जोर्जितेऽसि प्राप्ते योद्धुं मयि किमभियाने मृतिर्वीरलक्ष्म्याः । वीरम्मन्ये त्वयि मयि तथाऽन्यत्र वा प्रेमभङ्गो मा भूदस्याः प्रणयिनि जने स्वमलब्धे कथञ्चित् ॥ ७ I अन्वयः - सुरभयत्रासिगजोंर्जिते मयि योद्धुं असिप्राप्ते तव भीतिः मा भूत् अभियाने वीरलक्ष्म्याः मृतिः किम् ? वीरम्मन्ये त्वयि तथा मयि अन्यत्र वा प्रणयिनि जने स्वप्नलब्धे अस्याः प्रेमभङ्गः कथञ्चित् मा भूत् । - मेत्यादि । सुरभटत्रासिगजर्जिते अमरवीरभयजनकगर्जिबले । सुरभटान् त्रासयितुं भार्यायितु शीलं यस्य तत् । ' शीलेऽजातौ णिन् ' इति शीलेऽर्थे त्रस तेर्ण्यन्ताण्णिन् । गर्जस्य ऊर्जितं बलं गर्जोजितम् । गर्जः तडित्वत्स्तनितमिव गर्जः । सुरभटत्रासि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy