________________
चतुर्थः सर्गः]
- ३४३
इत्यमरः। परिभवजनितापवादचिह्नाङ्कितमित्यर्थः । ' कलङ्कोऽङ्के कालायसमले दोषापवादयोः ' इति विश्वलोचने । स्यात् भवेत् । तस्मिन् काले मुखस्य परिभवकलङ्काङ्कनकाले । हे जलद धृतमेघशरीराकार मरुभूतिचर यते । अत्र भाविनैगमनयापेक्षया शम्बरासुरेण भगवतो जलदेति सज्ञा कृता, राजपुत्रस्य राजाभिधानवदित्यवसेयम् । विद्वन्मन्यः विद्वन्मानी । विद्वांसमात्मानं मन्यते इति विद्वन्मन्यः । 'खश् स्वस्य' इति मन्यतेः खशि 'मुमचः' इति मुमागमः न प्राप्नोति हलन्तत्वात् । भवान् एव त्वमेव भणतु ब्रूहि । यदि चेत् मानोन्नतानां अभिमानजनितचित्तसमुन्नतीनां । मानेन अभिमानेन उन्नताः समुन्नतचित्ताः मानोन्नताः । तेषाम् । सा लक्ष्मीः । वीरश्रीः । वीराणामनतिशयं सामर्थ्यमित्यर्थः । 'शक्तौ तु सा स्त्रियाम् । इति मेदिन्याम्। लब्धनिद्रासुखा प्राप्तस्वापसुखा। निद्रायाः स्वापस्य सुखं निद्रासुखं । लब्धं प्राप्त निद्रासुखं यया सा लब्धनिद्रासुखा । स्यात् भवेत् । वीरश्रिया विराजितानां परस्परालापे परिभूतानां सतां सामर्थ्य कदापि नार्थक्रियाकृत्वाभाववद्भवति । त्वमपि वीरो मया निर्भसितोऽसि । अतस्त्वया मया साकं योद्धं बद्धपरिकरेण भाव्यमिति कमठचरशम्बरासुराभिप्रायः ।
0 [ would-be ] cloud ! you, considering yourself a man of sound learning, yourself should tell whether at that time when in the society of warriors the faces of men are stigmatized owing to their self-respect being offended by the proud-hearted enemies, the sovereign power of those, holding up their heads with pride, would enjoy the pleasure of sleep.
या ते बुद्धिर्मदुपचरिताद्विभ्यती लुप्तसञ्ज्ञा
मूकावस्थां त्वयि विदधती रुन्धती सत्त्ववृत्तिम् । सावष्टम्भं भव भटतरो वार्धयुद्धेऽस्थिरः स
नावास्यैनां स्तनितविमुखो याममात्रं सहस्व ॥ ६॥ अन्वयः- मदुपचरितात् बिभ्यती, लुप्तसज्ञा, त्वयि मूकावस्थां विदधती, सत्त्ववृत्तिं रुन्धती या ते बुद्धिः [ तां] एनां सावष्टम्भं अन्वास्य स्तनितविमुखः अर्धयुद्धे स्थिरः सन् भटतरः भव, वा याममात्रं सहस्व ।
येत्यादि । मदुपचरितात् त्वत्समीपं ममागमनात् । हेतौ का । विभ्यती भयविह्वला भवन्ती । लुप्तसञ्ज्ञा नष्टचेतना । हिताहितप्राप्तिपरिहारयोर्गुणदोषविचारणात्मिका सञ्ज्ञा । लुप्ता विलयं प्राप्ता सञ्ज्ञा हिताहितप्राप्तिपरिहारयोर्गुणदोषविचारात्मकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org