SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ३४२ पार्थाभ्युदये स्तम्भेनौपम्यमत्रेति भावः । रसेन सहितः सरसः । स्वरसाक्तस्तम्भनिभकायः इत्यर्थः। स चासौ कदलीस्तम्भश्च सरसकदलीस्तम्भः। स इव गौरः रक्तवर्णः सरसकलीस्तम्भगौरः । 'सामान्येनोपमान' इति सः । 'गौरः पीतारुणश्वेतविशुद्धेष्वभिधेयवत्' इति विश्वलोचने । भावत्कः भवदीयः । 'भवतष्ठण्छश्' इति ठणि 'दोसिसुसुगशश्वदकस्मात्तः कः' इति भवतस्तकारान्तत्वाट्ठस्य कः । ऊरुः सक्थि । 'सक्थि क्लीवे पुमानूरुः' इत्यमरः । तत्पुरस्तात् खड़ाग्रे। तस्य खडस्य पुरस्तादने तत्पुरस्तात् । चलत्वं सकम्पत्वं यास्यति गमिष्यति। Even those welknown heavenly warriors feel afraid whenever I get my sword unsheathed; what, then, of his who is not heroic? [ or who is not well-disposed in the meetings of the brave ?] O sage ! tell [ me ]; don't you feel ashamed of confronting [ or facing ] me in hostility ? This your thigh, resembling the stem of a plantain-tree redish owing to its being annointed withe its [own] juice on account of its being red owing to the wounds inflicted by my sword, will tremble in front of it (i. e. my sword ). यस्मिन्पुंसां परिभवकलङ्काङ्कनं स्याद्विपक्षा द्वीरालापे सति मदवतो वीरगोष्ठीषु वक्त्रम् । विद्वन्मन्यो भणतु स भवानेव मानोन्नतानां तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्यात् ॥५॥ अन्वयः-यस्मिन् वीरगोष्ठीषु वीरालापे सति मदवतः विपक्षात् पुंसां वक्त्रं परिभवकलङ्काङ्कनं स्यात् तस्मिन् काले जलद ! विद्वन्मन्यः भवान् एव भणतु यदि मानोन्नतानां सा लब्धनिद्रासुखा स्यात् ।। - यस्मिन्नित्यादि । यस्मिन् यस्मिन् काले वीरगोष्ठीषु वीरसभासु वीरसम्भाषणेषु वा । वीराणां शूराणां गोष्ठी सभा वीरगोष्ठी । तासु । ' गोष्ठी सभायां संलापे ' इति विश्वलोचने । वीरालापे सति वीरविषयकायां कथायां सत्यां । वीराणामालापः आभाषणं वीरालापः । तस्मिन् सति । वीरविषयके सम्भाषणे क्रियमाणे सतीत्यर्थः । मदवतः स्वसामर्थ्य निबन्धनाभिमानवतः । मदः मानः अस्य अस्तीति मदवान् । ततः । विपक्षात् शत्रोः । विरुद्धः पक्षः विपक्षः । तस्मात् । 'द्विविपक्षाहितामित्रदस्युशात्रवशत्रवः' इत्यमरः । पुंसां पुरुषाणां वक्त्रं मुखं परिभवकलङ्काङ्कनं तिरस्कारकलङ्कचिह्नितं । परिभवः तिरस्क्रियैव कलङ्कः परिभवकलङ्कः । सः अङ्कनं चिहं यस्य तत् । 'अनादरः परिभवः परीभावस्तिरस्क्रिया' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy