________________
चतुर्थः सर्गः
३४१
globes on the foreheads of the troops of elephants of enemies, playing the conquerer in battles [ i. e. winning battles ], the arm of the goddess of the brave, deserving gentle rubbings by my hands after the destruction of the strong bodies of those strongly desirous of quaffing blood [ or taking delight in quaffing blood ] is brought about, fall within the range of your ears ?
अस्युगीणे मयि सुरभटास्तेऽपि बिभ्यत्यसभ्यः
कस्त्वं स्थातुं भण मम पुरः किं न जिहेषि भिक्षो। भावत्कोऽयं मदसिवितताखण्डनात्तत्पुरस्ताद
यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥४॥
अन्वयः- अस्युद्गीणे मयि ते सुरभटाः अपि बिभ्यति; असभ्यः कः ? भिक्षो। भण, मम पुरः स्थातुं त्वं न जिह्वेषि किम् ? मदसिवितताखण्डनात् अयं सरसकदलीस्तम्भगौरः भावत्कः ऊरुः तत्पुरस्तात् चलत्वं यास्यति ।
अस्युद्गीण इत्यादि । अस्युद्गीणे निष्कोशीकृतकरवाले। उद्गीर्णः असिः खड्गः येन सः अस्युद्गीर्णः । 'क्ताचास्त्रं' इति क्तान्तादत्रवाचिनोऽसिशब्दस्य पूर्वनिपातः । मयि शम्बरासुरे कोशाबहिनिष्कासिते खड्डे । मया उद्धते सतीत्यर्थः । ते प्रसिद्धाः सुरभटाः अपि विबुधयोद्धारोऽपि बिभ्यति भीतिप्रकम्पिताः भवन्ति । असभ्यः कः ? निर्यः कियान् । यत्र अस्युद्गीर्णे मयि विबुधयोद्धारोऽपि भीत्या अकम्पन्ते तत्र निर्वीर्यस्य का कथेति भावः । सह भान्ति तेजसा प्रकाशन्ते अस्यामिति सभा। तेजस्विनां समाजः । तत्र साधुः सभ्यः । 'तत्र साधुः' इति साध्वर्थे यः । न सभ्यः असभ्यः । अप्रशस्तः सभ्यः इत्यर्थः । अत्राप्राशस्त्यार्थ नञ् । भिक्षो यते भण बहि । भिक्षते इति भिक्षुः । 'सन्भिक्षाशंसादुः' इत्युः । मम पुरः ममाग्रे स्थातुं अवस्थातुं न जिहेषि किं न लजसे किम् ? 'ह्री लज्जायां' इत्यस्मालटि रूपम् । मदसिवितताखण्डनात् मदीयकरवालविधास्यमानखण्डनाद्धेतोः । मम असिः खडः मदसिः । तेन विततं विधातुमारब्धं आखण्डनं विदारणं तस्मात् हेतुभूतात् । असावुद्धते खण्डनक्रियारम्भः प्रकटीभवति, न खण्डनक्रियाभिनिवृतिः । खण्डनक्रियानभिनिवृतावपि तस्याः उपचाराद्भूतकालेन सामानाधिरण्यं विधाय ' कर्तरि चारम्भे क्तः' इति क्तस्त्योऽत्र विहितः । यद्वा मदसिना कृतात् खण्डनादित्यर्थः । अयं एषः सरसकदलीस्तम्भगौरः कदलीदलविदलनप्रौढरसाक्ततत्स्तम्भवद्रक्तवर्णः । मदसिकृतखण्डनजनितशोणितेनात्तशोणवर्णस्योरोः स्वरसाक्तत्वाजनितशोणवर्णेन कदली
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org