________________
३४०
. [ पार्श्वभ्युदये करः, रक्तपानोत्सवानां सम्भोगान्ते मम हस्तसंवाहनानां समुचितः अयं अस्मत्खड्गः ते श्रुतिपथं न अगात् किम् ।
किमित्यादि । वैरिद्विरदनघटाकुम्भसम्भेदनेषु द्विषत्कुम्भिकुम्भस्थलसम्भेदनक्रियासु । वैरं शात्रवमस्त्यस्येति वैरी । 'अतोऽनेकाचः' इति इन् । 'रिपो वैरिसपत्नारिद्विषवेषणदुहृदः' इत्यमरः । द्वौ रदनौ दन्तौ यस्य सः द्विरदनः । गजः इत्यर्थः । वैरिणां सपत्नानां द्विरदनाः गजाः वैरिद्विरदनाः । 'दन्ती दन्तावलो हस्ती द्विरतोऽनेकपो गजः' इत्यमरः । तेषां घटा समूहः । 'करिणां घटना घटा' इत्यमरः । तस्याः कुम्भाः गजमूर्धांशाः । 'कुम्भो राश्यन्तरे । समाधौ गजमू(शे कुम्भकर्णसुते विटे' इति विश्वलोचने । तेषां सम्भेदनानि विदारणक्रियाः । तेषु । प्राप्तस्थेमा लब्धस्थैर्यः । प्राप्तः लब्धः स्थमा स्थैर्य येन स:प्राप्तस्थेमा । ' पृथ्वादेर्वेमन् ' इति भावे इमनि 'प्रियस्थिरस्फिरायादेरः' इति स्थिरशब्दावयवभूतस्येकारादेवर्णसङ्घातस्याऽत्वम् । सम विजयी सङ्ग्रामविजयशीलः ! समरं विजेतुं शीलमस्येति समरविजयी। 'परिभूजिक्षिविश्रीण्वमाव्यथाभ्यमः। इतान् शीलार्थे । 'अस्त्रियां समरानीकरणाः कलहविग्रहो' इत्यमरः । वीरलक्षम्या: जयलक्ष्म्याः । वीराणां लक्ष्मीः श्रीः वीरलक्ष्मीः । तस्याः। 'लक्ष्मीः श्रीरिव सम्पत्ती पद्माशोभाप्रियङ्गुषु' इति विश्वलोचने । समरविजयः एव वीराणां युद्धधुरन्धराणां लक्ष्मीः। करः हस्तभूतः । रक्तपानोत्सवानां रुधिरपिपासूनाम् । रक्तस्य रुधिरस्य पानं रक्तपानं । तत्र उत्सवः इच्छाप्रसरः येषां ते । तेषाम् । 'उत्सवो मह उत्सेध इच्छाप्रसरकोपयोः' इति विश्वलोचने । सम्भोगान्ते सच्छरीरप्रध्वंसनक्रियावसाने । समीचीनानां युयुधानशरीराणां नाशक्रियायाः अवसानकाले। समीचीनः भोगः शरीरं सम्भोगः । सम्भोगानां अन्तः विनाशः सम्भोगान्तः । तस्मिन् काले । सम्भोगविनाशे कृते सतीत्यर्थः । 'अन्तो नाशे मनोहरे ' इति विश्वलोचने । मम मे हस्तसंवाहनानां करकृतमर्दनानां । करकृतखड्गशरीरमर्दनानामित्यर्थः । 'संवाहनं तु भारादेवाहनेऽप्यङ्गमर्दने' इति विश्वलोचने । समुचितः सुतरां योग्यः । अयं हस्ते कृतः अस्मत्खड्गः आस्माकीनः करवालः ते तव श्रुतिपथं श्रवणगोचरतां । श्रुत्योः श्रवणयोः पन्थाः श्रुतिपथः । तम् । 'ऋक्पूरब्धूः पथोऽत् ' इत्यत्सान्तः । न अगात् किं नायासीरिकम् । 'अस्मत्करगृहीतकरवालमाहात्म्यं त्वच्छ्रवणगोचरतां न प्राप्तं किम् ' इति शम्बरासुरीयः प्रश्नः ।
Did not this sword of ours, attained to steadiness [ or become steady or constant ] in the process of rending asunder the frontal
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org