________________
३३९
चतुर्थः सर्गः] कुत्र प्रयास्यसि गमिष्यसि । उद्धेतिप्रणिपतनकैः उन्नामितशस्त्रप्रपातैः । उद्गता चासौ हेतिश्च उद्धेतिः । तस्याः प्रणिपतनकैः प्रपातैः । 'हेतिालार्फतेजसोः । स्त्रियां शस्त्रेऽपि ' इति विश्वलोचने । तदनं हेत्यग्रं । शस्त्राग्रमित्यर्थः । त्वां भवन्तं अवश्य निश्चयेन सारयिष्ये गमयिष्यामि । त्वच्छरीरान्तः प्रवेश कारयिष्यामीति भावः । सृधातोर्गम्यर्थत्वात् — ज्ञागम्यद्यर्थदृश्धेः' इति अण्यन्तस्य तस्य कर्तुः तदग्रस्य णौ कर्मसज्ञा । चिरपरिचितं चिरकालं यावदनुभूतिविषयतां नीतं मुक्ताजालं मुक्तामणिविरचितमानायाकार मञ्चकोपरिष्ठात्स्थापनयोग्यं जालकं । 'मोत्याची जाळी' इति महाराष्ट्रयाम् । ' जालस्तु क्षारकानायगवाक्षे दम्भवृन्दयोः' इति विश्वलोचने । अत्र मुक्ताजालमिति पदमुपलक्षणार्थे ' काकेभ्यो दघि रक्ष्यताम् ' इत्यादिवत् । तेन राजैश्वर्यस्य ग्रहणम् । राज्ञ ऐश्वर्यमित्यर्थो ग्राह्यः । देवगत्या दैवकृतया गत्याऽवस्थाविशेषेण । कर्मजनितेन विशेषणेत्यर्थः । प्रत्याख्यानावरणकषायचतुष्कक्षयोपशमजनितेनावस्थाविशेषेणेति जैनाभिमतकर्मसिद्धान्तापेक्षयाऽयमर्थः । 'गतिर्दशायां गमने ज्ञाने यात्राभ्युपाययोः । नाडीव्रणे सरण्यां च गतिर्जन्मान्तरेऽपि च ' इति विश्वलोचने । त्याजितः परिहारितः । त्यजेय॑न्तात्कर्मकतीर क्तः । द्विकर्मसु पचादीनामुपसङ्ख्यानात्त्यजेर्द्विकर्मकत्वम् । तावकः त्वदीयः । ' तवकममकमेकार्थे ' इत्येकार्थेऽञि परतो युष्मदस्तवकादेशः। निर्णयः निश्चयः स्वान स्वकीयान् । ' स्वो ज्ञातावात्मनि स्वं तु त्रिष्वात्मीये धनेऽस्त्रियाम् ' इति विश्वलोचने । प्राणान् असून घटयितुं तव शरीरे एकत्रावस्थापयितुं न वा अलं नैव समर्थः ।
Osage ! where would you get off ( sofely ), when I would have my wrath stirred up? With strokes of my drawn ( uplifted ) sword I will certainly make its end pass through you. Your decision, made to renounce the net of pearls [ i. e. royal insignia ] familiar since long through the contrivance of fate, is not at all capable of holding your vital airs together.
किं ते वैरिद्विरदनघटाकुम्भसम्भेदनेषु
प्राप्तस्थमा समरविजयी वीरलक्ष्म्याः करोऽयम् । नाऽस्मत्खड्गः श्रुतिपथमगाद्रक्तपानोत्सवानां
सम्भोगान्ते मम समुचितो हस्तसंवाहनानाम् ॥ ३ ॥ अन्वयः- वैरिद्विरदनधटाकुम्भसम्भेदनेषु प्राप्तस्थमा, समरविजयी, वीरलक्ष्म्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org