SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः] ३४५ गोंर्जितं यस्य सः । तस्मिन् । मयि योधुं सम्प्रहर्तुं असिप्राप्ते गृहीतकरवाले । प्राप्तः सम्पादितः गृहीतः वा असिः येन सः । ‘क्ताचास्त्र' इति पूर्व क्तान्तादसिशब्दस्य निपातः । तव भवतः भीतिः भयं माभूत् मा स्म जनि । अभियाने आक्रमणकाले वीरलक्ष्म्याः वीरसामर्थ्यस्य । वीराणां लक्ष्मीः श्रीः वीरलक्ष्मीः । वीरशौर्यस्येत्यर्थः । मृतिः विनाशः किं भवति किम् । आक्रमणकाले वीराणां सामर्थ्य नैव विलयमीयते इति भावः । वीरम्मन्ये वीरमानिनि । आत्मानं वीरं शूरं मन्यते इति वीरम्मन्यः। 'खश् स्वस्य' इति खशि प्राप्ते 'मुमचः' इति मुमागमः। त्वयि मरुभूतिचरे पार्श्वनाथे तथा मयि कमठचरे मयि शम्बरासुरे अन्यत्र वा अन्यस्मिन् वा प्रणयिनि प्रेमवति जने लोके स्वपलब्धे स्वप्नप्राप्ते । अस्याः वीरलक्ष्म्याः प्रेमभङ्गः प्रीतिविनाशः कथञ्चित् केनापि प्रकारेण माभूत् मा स्म जनि । 'माङि लुङ्' इति माङ् योगे लुङ् । Do not be afraid of me when I, the force of whose thunderlike roar troubles the heavenly warriors, wield a sword to give a fight. Does tbe goddess [ the supermost strength (i. e. supermost valour)] of the-brave cease to exist (or give way ) at the time of an attack? Let not her love for you, for me or for any one else, considering oneself to be a warrior, the object of her love, secured in a dream, be lost in any way. निस्सङ्गस्त्वं न हि भुवि भयस्याऽङ्गमङ्गाङ्गसङ्गात् किंवा जीवन्मतक भवतोऽप्यस्ति भीरङ्गनानाम् । कृत्वा युद्धे विदधति मतिं नन्विमे योधमुख्याः सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ ८॥ अन्वयः- अङ्ग ! त्वं निस्सङ्गः । भुवि [ ते ] भयस्य अङ्गं न हि ।. वा जीवन्मतक ! अङ्गनानां अङ्गसङ्गात् भवतः अपि भीः अस्ति किम् ? इमे योधमुख्या: युद्धे मतिं कृत्वा कण्ठच्युतभुजलताग्रन्थि गाढोपगूढं सद्यः ननु विदधति । निस्सङ्ग इत्यादि । अङ्ग सम्बोधने । उक्तं च - 'क्षिप्रे च पुनरर्थे च सङ्गमासूययोस्तथा । हर्षे सम्बोधने चैव ह्यङ्ग शब्दः प्रयुज्यते ॥' इति । त्वं भवान् । निस्सङ्गः सङ्गरहितः । निष्परिग्रहः इत्यर्थः । भुवि भुवने ते भयस्य भीतेः अङ्गं उपायः । 'अश्रो देशेऽङ्गमन्तिके । गात्रोपायाप्रधानेषु प्रतीकेऽप्यङ्गवत्यपि' इति विश्वलोचने । न हि नैव । अस्तीति शेषः। ' हि विशेषेऽवधारणे' इति विश्वलोचने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy