________________
३३३
तृतीयः सर्गः] दोहदः' इत्यमरः। जाने अवमि । अस्मात् स्नेहज्ञानाद्धेतोः संवासात् च सहवासाच्च इमं एनं व्यतिकरं व्यसनं । 'भवेद्व्यतिकरः पुंसि व्यसनव्यतिषङ्गयोः' इति विश्वलोचने । तत्त्वतः याथार्थेन वेनि जानामि । तस्मात् ततः कारणात् प्रथमविरहे अद्वितीये वियोगे । प्रथमः अद्वितीयश्चासौ विरहः वियोगश्च प्रथमविरहः । तस्मिन् । दीर्घकालमनुभूतिविषयत्वादविषह्यदुःखोत्पत्तिनिमित्तत्वाच्च विरहस्व प्राथम्यमत्रावसेयम् । तां वसुन्धराचरौं किन्नरकन्यको अहं इत्थम्भूतां पूर्ववर्णितावस्थामापन्नां तर्कयामि उत्प्रेक्षे ।
I think that the mind of your female friend is saturated with affection for me, an elderly one, along with my wife [ in company with my beloved ], having regarded it (affection) as that for the elderly, relatives; owing to this and to my habitation in company with her [ your beloved ] [ or our cohabitation ], I know the calamity befallan her [ accurately ]; I, therefore, conjecture her to have undergone this state in the period of the incomparable separation.
तन्मे सत्यं सकलमुदितं निश्चिनु स्वार्थसिद्ध्यै स्निग्धां वृत्तिं मनसि घटयन् येन साध्यानुविद्धम् ।
वाचालं मां न खलु सुभगम्मन्यभावः करोति
प्रत्यक्षं ते निखिलमविरादातरुक्तं मया यत् ॥५५॥ अन्वयः- [हे ] भ्रातः यत् साध्यानुविद्धं निखिलं मया ते प्रत्यक्षं स्वार्थसिद्ध्यैः । अचिरात् उक्तं सत् मे सकलं उदितं मनसि स्निग्धां वृत्ति घटयन् सत्यं निश्चिनु येन खलु सुभगम्मन्यभावः मां वाचालं न करोति ।
नहित्यादि । हे भ्रातः भो सहोदर यत् सीध्यानुविद्धं सिषाधयिषितप्रणुनं । साध्येन सिषाधयिषितेन अनुविद्धं प्रणुन्नं साध्यानुविद्धम् । निखिलं सकलं मया कमठचरेण शम्बरासुरेण ते तव प्रत्यक्षं समक्षं स्वार्थसिद्धयै स्वाभिप्रेतप्रयोजनसिद्ध्यर्थे अचिरात् सद्यः उक्तं कथितं तत् मे मम सकलं सर्व उदितं कथनं । 'नब्भावे क्तोऽभ्यादिभ्यः' इति भावे क्तः नप् च । मनसि हृदये स्निग्धां स्नेहमयी वृत्ति प्रवृत्ति घटयन् जनयन् विरचयन् वा सत्यं अन्यूनमनतिरिक्तं याथातथ्यमविपरीतं निःसन्देहं च निश्चिनु अवधारय । येन यतः कारणात् खलु सुभगम्मन्यभावः सुजनमानित्वं । सुभगमात्मानं मन्यते सुभगम्मन्यः । तस्य भावः सुभगम्मन्यभावः । 'खश स्वस्य' इति खश् । खित्त्वात् 'मुमचः' इति मुमागमा। मां वाचालं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org