________________
३३४
[ पार्श्वाभ्युदये
जस्पार्क | ' स्याज्जस्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्' इत्यमरः । ' शिष्यालाटो' इत्यालः । न करोति न विदधाति । अहं महानस्मीति कल्पना शिल्पिकल्पितो भावो मे जल्पाकत्वं प्रतिबध्नाति । मन्माहात्म्यापेक्षया न मे इतोऽधिकं वक्तुमिच्छास्ति, ततो माहात्म्यहानिसम्भवात् । " भगं तु ज्ञानयोनीच्छायशोमाहात्म्यमुक्तिषु । ऐश्वर्यवीर्यवैराग्यधर्मश्रीरत्नभानुषु ' इति विश्वलोचने ।
O brother ! you, with an affectionate mind, should ascertain the whole of my statement, urged by the matter at issue [or impelled by the object of attaining what is to be attained ], made recently by me in your presence to gain my ends, to be true [accurate ]; for a thought of self-importance does not allow me to become loquations.
भूयः प्रीत्यै भवतु सुदती सा मदाज्ञाकृतस्ते
स्निग्धं चक्षुस्त्वयि निदधती दृष्टमात्रे पुरा यत् । रुद्धाप इङ्गप्रसरमलकैरञ्जन स्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृत भ्रूविलासम् ॥ ५६ ॥
अन्वयः-- त्वयि दृष्टमात्रे पुरा यत् अलकैः रुद्धापाङ्गप्रसरं, अञ्जनस्नेहशून्यं, अपि च मधुनः प्रत्यादेशात् विस्मृतभ्रूविलासं [ तत् ] स्निग्धं चक्षुः निदधती सा सुदती मदाज्ञाकृतः ते भूयः प्रीत्यै भवतु ।
भूय इत्यादि । त्वयि मरुभूतिचरे त्वयि पार्श्वे दृष्टमात्रे आलोकितमात्रे पुरा प्रथमं । भविष्यदासन्ने इत्यर्थः । यत् अलकैः कुन्तलैः । कुटिलकेशैरित्यर्थः । रुद्धापाङ्गप्रसरं प्रतिबद्धनेत्रान्तप्रदेशगमनं । अपाङ्गप्रदेशप्रसरप्रतिरोधात्कटाक्षविक्षेपविकत्वं ध्वनितमित्यवसेयम् । ' अपाङ्गस्त्वङ्गविकले नेत्रान्ते तिलके पुमान्' इति विश्वलोचने । ' प्रसरस्तु विसर्पणम् ' इत्यमरः । अञ्जन स्नेहशून्यं अकृताञ्जनसंस्कारं । 'अञ्जनस्याक्षिकजलस्य सौवीरस्य वा स्नेहः देहः अञ्जनस्नेहः । तेन शून्यं विकलम् । " अञ्जनं तु रसाञ्जने । अक्षिकजलसौवीरे गिरिभेदेऽप्यथाञ्जने ' इति विश्वलोचने । अपि च किञ्च मधुनः रतिफलस्य मैरेयाभिधवृष्यरसस्य । मधु पुष्परसे क्षौद्रे -मद्यक्षीराप्सु न द्वयोः । मधुर्मधूके सुरभी चैत्र दैत्यान्तरे पुमान् । जीवाशाके स्त्रियामेव 'मधुशब्दः प्रयुज्यते । ' इति विश्वलोचने । प्रत्यादेशात् प्रत्याख्यानात् । परित्यागा-दित्यर्थः । ‘प्रत्यादेशो निराकृतिः ' इत्यमरः । विस्मृत भ्रूविलासं विस्मृतभ्रूभङ्गम् । अवोविलासः भूविलासः । भ्रूभङ्गः इत्यर्थः । विस्मृतः भ्रूविलासः येन तत् । यद्वा
८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org