SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ३३२ [ पार्श्वाभ्युदये वृत्तिः यस्य सः । सर्वः सर्वः जनः प्रायः बाहुल्येन आर्द्रान्तरात्मा सवाष्पान्तःकरणः भवति जायते । सकरुणत्वमन्तरेण अन्तरात्मन आर्द्रत्वं न सम्भवति । त्वं आर्द्रान्तरात्मा, अतस्त्वया सकरुणेनावश्यं भाव्यम् । सकरुणत्वात्तस्यास्तां तथाविधा - मवस्थां दृष्ट्वा तव नयनयोराबद्धधारमश्रु निपतिष्यतीति भावः । ननु महाकविश्वक्षुःप्रीतिसमाख्या मादिमामवस्थामुपेक्ष्य मनः सक्त्याद्यवस्थान्तराण्येव किं वर्ण्यविषयतां निनायेति चेत्, उच्यते । प्रथमदर्शनात्पूर्वमसञ्जातपरस्परदर्शनयोरेव चक्षुः प्रीतिस्तम्भवति, न पुनः पूर्वं जातदर्शनयोः समुत्पन्नप्राग्भवस्मृतेर्वा । वसुन्धराचर्याः किन्नरकन्नकायाः समुपजातप्राग्भवस्मृतित्वात् चक्षुः प्रीत्याख्यप्रथममदनावस्था न सम्भवतीति न साऽत्र वर्णितेति विज्ञेयम् । उक्तं च ' रत्युलाससमुद्भवाः खलु दशावस्थाश्च चक्षुर्मनः - । प्रीत्यासक्तियुगं पुनर्भुवि तथा सङ्करूपको जागरः ॥ सम्प्रोक्ता तनुता तथा च विषयद्वेषस्त्रपानाशनं । मोहो मूर्च्छनमप्यतो मृतिरिति प्रोक्ता दशा विच्युतैः ' ॥ इति । ८ She, extremely unhappy, wallowing like a fish near a bed, reduced to the state of helplessnees owing to her tremulous sighs, with passion excited, would surely make you shed tears in the form of fresh water; everyone compassionate by nature, is generally stirred to tears [ or has his inner heart moistened, ]. बन्धुप्रीतिं गुरुजन इवाहत्य कान्ताद्वितीये ज ने सख्यास्तव मयि मनः सम्भृतस्नेहमस्मात् । संवासाच्च व्यतिकरमिमं तत्त्वतो वेद्मि तस्मादित्थम्भूतां प्रथमविरहे तामहं तर्कयामि ॥ ५४ ॥ अन्वयः - कान्ताद्वितीये मयि गुरुजने बन्धुप्रीतिं इव आहत्य तव सख्याः मनः सम्भृतस्नेहं जाने । अस्मात् संवासात् च इमं व्यतिकरं तत्त्वतः वेद्मि; तस्मात् प्रथमविरहे तां अहं इत्थम्भूतां तर्कयामि । बन्धुप्रीतिमित्यादि । कान्ताद्वितीये सहजानौ । कान्ता द्वितीया यस्य स्व कान्ताद्वितीयः । तस्मिन् । मयि कमठचरे शम्बरासुरे मयि गुरुजने ज्येष्ठजने । गुरुर्ज्येष्ठश्चासौ जनश्च गुरुजनः । तस्मिन् । बन्धुप्रीतिं इव बान्धवानुरागमिव आहत्य विगणय्य तव भवतः सख्याः प्रेयस्याः मनः अन्तरात्मा सम्भृतस्नेहं सञ्चितानुरागं । सम्भृतः सञ्चितः स्नेहः अनुरागः यस्मिंस्तत् । ' प्रेमा ना प्रियता हार्दै प्रेम स्नेहोऽथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy