________________
तृतीयः सर्गः]
३३१ ध्वरे' इति विश्वलोचने । त्वां अपि भवन्तं योगिनमपि तां किन्नरकन्यकादशासदृशी दशां अवस्थां । वीताहारत्वाद्यवस्थामित्यर्थः। नेतुं प्रापयितुं अर्हेत् समर्था भवेत् । ... That frail woman, rejecting food [ or meal ], bearing an emaciated body, with ornaments discarded, placed repeatedly on the region of the bed with distress, with pale cheeks moistened with water [ tears ] dropping down form the eyes, would be able to occasion you, with your mind's stable equilibrium disturbed, to attain to that state.
शय्योपान्ते भृशमपसुखा मत्स्यलोलं लुलन्ती
बद्धोत्कम्पश्वसितविवशा कामपात्रायिता सा । त्वामप्यनं नवजलमय मोचयिष्यत्यवश्य
प्रायः सर्वो भवति करुणावृत्तिराद्रान्तरात्मा ॥५३॥
अन्वयः- भृशं अपसुखा शय्योपान्ते मत्स्यलोलं लुलन्ती बद्धोत्कम्पश्वसितविवशा कामपात्रायिता सा नवजलमयं असं त्वां अपि अवश्यं मोचयिष्यति । करुणावृत्तिः सर्वः प्रायः आर्द्रान्तरात्मा भवति ।
शय्येत्यादि । भृशं अत्यर्थं अपसुखा सुखवर्जिता । दुःखितेत्यर्थः । अपगतं सुखं यस्याः सा अपसुखा । 'अप स्यादपकृष्टार्थे वर्जनार्थे विपर्यये । वियोगे विकृती चौर्ये हर्षनिर्देशयोरपि' इति विश्वलोचने। शय्योपान्ते शय्यायाः पार्श्वभागे। मत्स्यलोलं लुलन्ती मत्स्य इव लुठन्ती । ' कर्मणि चेवे' इति कर्तरि वाचि णमि. वार्थे तस्यैव धोरनुप्रयुक्तत्वात् । बद्धोत्कम्पश्वसितविवशा। बद्धः जनितः उत्कम्प: प्रकम्पः यस्यां सा । श्वसितेन श्वासेन विवशा अवश्यमानसा श्वसितविवशा । बद्धोकम्पा चासौ श्वसितविवशा च बद्धोत्कम्पश्वसितविवशा । श्वसितविवशेत्यस्य प्राधान्यविवक्षया 'विशेषणं विशेष्येणेति' इति सः। 'पुंवद्यजातीयदेशीये' इति पुंवद्भावः। यद्वा बद्धः जनितः उत्कम्पः यस्य यस्मिन् वा तत् । तेन श्वसितेन विवशा बद्धोकम्पश्वसितविवशा । कामपात्रायिता। कामस्य रिरंसायाः पात्रं भाजनं कामपात्रं । कामपात्रमिवाचरति स्म काभपात्रायिता। संजातरिरंसेत्यर्थः । रिम्सासमुत्पत्तस्तस्या बद्धोत्कम्पश्वसितविवशतेत्यध्यवसेयम् । सा वसुन्धराचरी किन्नरकन्यका। नवजलमयं नव्यसलिलरूपं अस्त्रं अश्रु । आस्रमिति वा पाठः। 'अस्रमास्रश्च पुल्लिगो क्लेशे च रुधिरेऽश्रुणि' इति वैजयन्ती । त्वां अपि भवन्तमपि मोचयिष्यति । 'द्विकर्मसु पचादीनामुपसङ्ख्यानम् ' इति मुचेः पचादित्वाद्विकर्मकत्वम् । करुणावृत्तिः दयामयोऽन्तःकरणव्यापारः । करुणाया वृत्तिः व्यापारः यत्र सः करुणावृत्तिः। यद्वा करुणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org