________________
तृतीयः सर्गः ]
३२७
च्छायेव च्छाया यस्याः सा । ताम् । 'ईबुपमानपूर्वस्य सुखं गतार्थत्वात् ' इति
<
,
"
खम् | मदनशिखिनः मदनाग्नेः । मदनः कामः एव शिखी अभिः मदनशिखी । तस्य। 'शिखी केतुग्रहे वह्नौ मयूरे कुक्कुटे शरे । बलीवर्दे बके वृक्षे प्रतिभेदसचूडयो: ' इति विश्वलोचने । धूमयष्टीयमानां दण्डाकारधूम रेखाप्रख्याम् । धूमः यष्टिः इव धूमयष्टिः । धूमयष्टिरिवाचरतीति धूमयष्टीयते । धूमयष्टीयते इति धूमयष्टीयमाना । ताम् । ' क्यङ् च' इति कर्तुः क्यङ् गौणादाचारेऽर्थे । स्पर्शक्लिष्टां स्पर्शपर्यस्तां 1 स्पर्शत्राहुस्यजनिताव्यवस्थामित्यर्थः । कठिनविषमां । कठिना मार्दवविकला चासौ विषमा स्थपुटिता च कठिनविषमा । ताम् । शिखापारुष्यमत्र स्नेहो पदेहाभावनिबन्धनं तद्वैषम्यं च कङ्कतिकाकरणविजटीकरणाभावकारणक मित्यवसेयम् । खञ्जकुब्जादिवत्सः । खञ्जकुब्जः इत्यत्र कुब्जशब्दस्य प्राधान्यविवक्षायां विशेषत्वापत्तौ ' विशेषणं विशेष्येणेति' इति यसः यथा भवति तथा विषमाशब्दस्य प्राधान्यविवक्षायां विशेष्यत्वसम्पत्तेः ' विशेषणं विशेष्येणेति इति यसः । तां विरहृप्रथमदिवसे विरचितां एकवेणी एकीभूतां विरहव्यथाव्यञ्जनीं वेणीं केशरनाविशेषं । 'वेणी नदीनां सङ्गे स्यात्केशबन्धान्तरेऽपि च । देवताडेऽपि वेणी स्त्री ' इति विश्वलोचने । पूर्व - कालै कसर्व जरत्पुराणनव केवलं यश्चैकाश्रये इति यसः । एका चासौ वेणी चेति तद्विग्रहः । अयमितनखेन अकृत्तनखेन । अयमिताः अकृत्ताग्राः नखाः पुनर्भवाः यस्य तेन । करेण हस्तेन गण्डाभोगात् कपोलविस्तारात् । गण्डस्य कपोलस्य आभोगः विस्तारः परिपूर्णता गण्डाभोगः । तस्मात् । ' आभोगो वारुणच्छत्रे यत्नपूर्णत्वयोरपि ' इति ' गण्डस्तु पिटके योगभेदे खङ्गिकपोलयोः । वरे प्रवीरे चिह्ने च वाजिभूषणबुद्बुदे ' इति च विश्वलोचने । असकृत् वारंवारं । पौनः • पुन्येनेत्यर्थः । सारयन्तीं दूरीकुर्वाणां । प्रथमयापसारणक्रिययापसृतामप्येकवेण कपोलतलस्थितामेव मन्यमाना विरहजनितचित्तविभ्रमेण मुहुर्मुहुरपाकुर्वाणामित्यर्थः । अनेन चेतसो वैकल्यं संसूच्यते । संश्रितान् कृतंसंश्रयान् इष्टान् अभिमतान् बन्धून् बान्धवान् मृगायतुं इव अन्वेषयितुमिव जालमार्गप्रविष्टान् गवाक्षद्वारेण कृतप्रवेशान् । 'जालस्तु क्षारकानायगवाक्षे दम्भवृक्षयोः इति विश्वविलोचने 1 अमृतशिशिरान् अमृतमिवामृतेन वा शिशिरान् शीतान् इन्दोः चन्द्रमसः पादान् किरणान् । ' पादोऽस्त्री चरणे मूले तुरीयांशेऽपि दीधितौ । शैलप्रत्यन्तरौले ना ' इति विश्वलोचने । पूर्वप्रीत्या पूर्वप्रेम्णा । वियोगपूर्वकाले यथाऽऽनन्दकरास्तेऽभवन् तथा विरहकाले ऽप्यानन्द निष्यन्दिनस्ते भवेयुरित्यभिप्रायेणेति भावः । सङ्ग्रहीतुं सभाजयितुं सेवितुं वा अभिमुखं सम्मुखं गतं यातं तथैव तेनैव प्रकारेण निवृत्तं
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org