________________
१२६
[ पार्श्वाभ्युदये
६
3
बसुन्धराचर्याः किन्नरकन्यकायाः विश्लेषः वियोगः मद्विश्लेषः । तस्माद्धेतोः । उपहितशुचः संरूढदुःखस्य । उपहिता संरूढा शुक् यस्य सः । तस्य दूरदेशस्थितस्य अनासन्नदेशस्थितिकस्य | अनुचितानङ्गबाधस्य अप्रशस्तकामवासनोद्रेकजनितपीडस्य | अनुचिता अप्रशस्ता तीव्रतरत्वाद् अनङ्गस्य कामस्य मदनस्य बाधा पीडा यस्य सः । तस्य प्राणेशस्य प्राणनाथस्य । प्राणानामीष्टे इति प्राणेशः । तस्य स्वप्नजः अपि स्वप्नावस्थायां जायमानः अपि । अनासन्नदेशस्थायित्वात्प्रियकरस्य मिथुनीभावमन्तरेण साक्षात्सम्भोगासम्भवाच्च स्वप्नजः अपि इत्युक्तम् | मत्संयोगः मया समं संयोगः मिथुनीभवनरूपः कथं केन प्रकारेण जातु उपनमेत् सम्पन्नो भवेत् इति अस्माद्धेतोः नयनसलिलोत्पीड रुद्धावकाशां नयनजलोत्पतनप्रतिषिद्धावसराम् । नयनयोः सलिलं नयनसलिलं । नयनसलिलस्योत्पीडः उत्पतनं निस्सरणं नयनसलिलोत्पीडः । तेन रुद्धः प्रतिबद्धः अवकाशः अवसरः यस्याः सा । ताम् । नयनयोः सलिलोत्पततेन जातप्रतिबन्धामित्यर्थः । निद्रां स्वापं आकाङ्क्षन्तीं अभिलषन्तीम् । विरहजनितदुःखोत्पादितसलिलसमाक्रान्तत्वान्नयनयोः ततः प्रपलायमानां निद्रामा काक्षन्तीमित्यर्थः । दुःखविनिःसृतसलिलनयनस्य मुद्रितनयनत्वेऽपि निद्रा विद्राविता भवतीति सर्वजनप्रसिद्धम् । या शिखा अस्मात् एतस्माद्दिवसात् व्यवहिततरे अन्तरिततरे जन्मनि प्राक्तने भवे आधे प्रथमे विरहदिवसे वियोगदिने । यस्मिन्विरहो जातस्तस्मिन्दिने इत्यर्थः । दाम वेणिभूषणभूतां मालां हित्वा परित्यज्य वेणिका एकवेणीसदृशी । एकवेण्याकारेत्यर्थः । इवे खुप्रतिकृत्योः कः इति खाविवार्थे कः । शिखा चूडा बद्धा विरचितेति मया कमठचरेण शम्बरासुरेण मया स्मर्यमाणा स्मृतिविषयतां नीयमाना तां स्वां तां स्वकीयामेकवेणीभूतां शिखां शापस्य अन्ते अरविन्दमहाराजदत्तदण्डभोगकालावसानसमये विरहवपुषां वः वियोगमूर्तीना युश्माकम् । वियोगमूत्यर्युवयोरित्यर्थः । सङ्गमं विधाय संयोगं कृत्वा । संयोगविधेरनन्तरं विगलितशुचा वीतशोकेन । त्वयेत्यर्थः । विगलिता विनष्टा शुक् शोकः यस्य सः । तेन विगलितशुचा । उद्वेष्टनीयां उन्मोचनाही ! उद्वेष्टितुमुन्मोचयितुं योग्या उद्वेष्टनीया | ताम् । ज्याचा इत्यहार्थे व्यः । निन्दन्तीं गहलमानां । कुत्सयन्तीमित्यर्थः । वक्त्रेन्दुग्रसन1 रसिकां वदनचन्द्रमासीकरण क्रियानैपुण्यवतीं । वक्त्रमेवेन्दुश्चन्द्रमाः वक्त्रेन्दुः । तस्य ग्रसनं ग्रासीकरणं । तत्र रसिकां ज्ञानवतीं सानन्दां वा । श्रितां मुखेन्दोः समीपं प्राप्तां राहुमूर्तिं वा राहुशरीरं इव आनन्दजनन्याः मुखकान्तेरपहारकत्वाद्राहुशरीरेण तस्या साधर्म्यमित्यभिप्रायः । व्योमच्छायां आकाशप्रकाशसंकाशकाशां । व्योम्नः आकाशस्य
,
'
Jain Education International
For Private & Personal Use Only
3
www.jainelibrary.org