________________
तृतीयः सर्गः ]
३२५
1
८
रोधयद्भिः । पक्ष्माणि पक्ष्मलोमानि रुन्धन्तीति पक्ष्मरुधः । तैः । किप् । 'पक्ष्म लोचनलोमनि । पक्ष्म सूत्रादिसूक्ष्मांशे पक्ष्म स्यात्केशरेऽपि च' इति विश्वलोचने । गलद्भिः स्रवद्भिः उष्णैः उष्णीभूतैः अश्रुभिः अखैः । 'नेत्राम्बु रोदने चास्रमश्रु च' इत्यमरः । यापयन्तीं गमयन्तीं । यातेर्ण्यन्ताच्छनृत्यः । ' ह्रीव्लीरीक्नूय्यतिक्ष्माय्यातां पुग्णावेव्' इति णौ परे पुगेप् च । स्वं स्वकीयं । 'स्वो ज्ञातावात्मनि स्वं तु त्रिष्वात्मीये धनेऽस्त्रियाम् ' इति विश्वलोचने । अन्तस्तापं हृदयगतं विरहानलजनितं तापं । अन्तर्गतस्तापोऽन्तस्तापः । तम् । प्रपिशुनयता प्रकर्षेण सूचयता । ' पिशुनो नारदे पुंसि खलसूचकयोस्त्रिषु' इति विश्वलोचने । पिशुनं सूचकमनुकरोतीति पिशुनयति । सूचयतीत्यर्थः । ' मृदो ध्वर्थे णिज्बहुलं ' इति णिच 'कण्ड्डादेर्यक्' इति यग्वा कण्ड्वादेराकृतिगणत्वात् । ततः शतृत्यः । कवोष्णेन ईषदुष्णेन । ' कवं चोष्णे ' इत्यस्पार्थे को कवादेशः उष्णशब्दे परे। — कोष्णं कवोष्णं मन्दोष्णं ' इत्यमरः । अधर किसलयक्लेशिना पलवोपमाधरोष्ठप्रबाधनेन । अधरः अधरोष्ठः किसलयः इव अधर किसलयः । सामान्येनोपमानं ' इति सः । अधरकिसलयं क्लेशयति क्लिश्नातीति वा अधर किसलयक्लेशी । तेन । ऊष्मवत्त्वात् पल्लवतुख्याधरोष्ठक्लेशजनकत्वं निःश्वासस्येति भावः । क्लिश्यतेर्ण्यन्ताक्लिश्नातेरण्यन्ताद्वा 'शीलेऽजातौ णिन्' इति शीलार्थे णिन् । निःश्वासेन निःश्वसितेन तन्मु खेन्दोः तस्याः वसुन्धराचर्याः किन्नरकन्यकायाः आननचन्द्रमसः । मुखमेवेन्दुश्चन्द्रमाः मुखेन्दुः । तस्याः मुखेन्दुः तन्मुखेन्दुः । तस्य । हरिणरचितं हरिणशरीराकाररचनाविशेष | रचितं रचना । ' नव्भावे क्तोऽभ्यादिभ्यः ' इति भावे क्तः नप् च । हरिणस्य रचितं रचनाविशेषः हरिणरचितं । हरिणरचितमिव चितं यस्य सः हरिणरचितः । 1 तम् ' ईबुपमानपूर्वस्य सुखं गतार्थत्वात् ' इति सुखम् । हरिणशरीराकारसदृशरचनाविशेषमित्यर्थः । विम्लिष्टं पृथक्तयाऽवस्थितं । तन्मुखेन्द्रङ्गतामप्राप्तमित्यर्थः । लाञ्छनं वा अङ्कः इव । शुद्धस्नानात् तैलाभ्यञ्जनविकलात्स्नानाद्धेतोः । विरहिण्यास्तैलाभ्यञ्जनादेः प्रतिषिद्धत्वात्तद्विकलस्नानस्य शुद्धत्वमुक्तम् । परुषं मृदुस्पर्शशून्यं । कठिनस्पर्शमित्यर्थः । " चरबट ' इति महाराष्ट्रयाम् । आगण्डलम्बं कपोलमभिव्याप्य लम्बमानं | आगण्डमाकपोलम् । कपोलमभिव्याप्येत्यर्थः, आङोऽभिविध्यर्थत्वात् ' आङ्मर्यादाभिविध्योः ' इति । लम्बते इति लम्बः । पचादिभ्योऽच ' इत्यच् पचादेराकृतिगणत्वात् । आगण्डं लम्बः आगण्डलम्बः । 'सुप् सुपा ' इति सः । अलकं चूर्णकुन्तलान् । जातावेकवचनम् । 'अलक चूर्णकुन्तले' इति विश्वलोचने । नूनं अवश्यं । ' नूनं तर्के तु विख्यातं नूनं स्यादर्थनिश्चये ' इति विश्वलोचने । भूयः पुनः पुनः । विक्षिपन्तीं दूरमुत्सारयन्तीं । मद्विश्लेषात् मद्वियोगात् । मत्तः
८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org