________________
. ३२१
[पार्धाभ्युदये यवामित्यर्थः । पञ्चबाणबाणायमानत्वात्कामोद्रेकजनितदेहदाहप्रशमनाभिलाषविनिर्मितकुसुमशयनस्यापधनैकदेशेन समाश्रिततदेकदेशमात्रामिति भावोऽत्र समाश्रणीयः । प्राचीमूले उदयशिखरिशिखरप्रान्तप्रदेशे । प्राच्या पूर्वस्यां दिशि मूलं उत्पत्तिस्थानमिति प्राच्याः पूर्वस्याः दिशो मूलमिति वा प्राचीमूलम् । तस्मिन् । हिमांशोः चन्द्रमसः । हिमाः शीतलाः अंशवः रश्मयः यस्य सः हिमांशुः । तस्य । हिमरश्मेश्चन्द्रमसः इत्यर्थः । कलामात्रशेषां । कलामात्रं कलैव शेषः अवशिष्टो भागः यस्याः सा । ताम् । कृष्णपक्षे विगलितपञ्चदशकलत्वादवशिष्टैककलामित्यर्थः । तनुं इव शरीरसदृशीं । कृष्णपक्षे विगलितपञ्चदशकलोऽवशिष्टैकमात्रकलश्चन्द्रमाः प्रत्यूषे उदथाचलप्रस्थपृष्ठभागं समाश्रितः सन्यथा आसन्नसूर्योदयत्वान्निस्तेजस्कस्तथा विरहदाहदग्धत्वात्तेजोवैकल्यमाश्रितामित्यभिप्रायः। 'कलामात्रशेषां' इत्यत्र मात्रट्प्रत्ययः प्रमाणार्थकः । तापापास्त्यै तापापनुत्तये । तापस्य विरहजनितदेहदाहस्यापास्तिः अपनयनं तापापास्तिः । तस्यै । तापमपासितुमित्यर्थः । 'ध्वर्थवाचोऽर्थात्कर्मणि' इत्यम् । हृदयनिहितां हृत्प्रदेशे स्थापितां । हृदये वक्षोदेशे निहिता न्यासीकृता हृदयनिहिता। तां । हारयष्टिं हारं । यष्टिशब्दपरोऽपि हारशब्दो हारार्थ एव । 'यष्टिः शस्त्रान्तरे हारे हारे हारात्परेऽपि च । भाङ्ग्यिां च मधुपर्यो च ध्वजदण्डे तु पुंस्ययम् ।' इति विश्वलोचने। दधानां धारयन्ती । विरहदहनजनितदाहोपशमनम्भवेदित्यभिप्रायेण स्ववक्षोदेशे धृत-। हारामित्यर्थः । त्वत्प्रियायाः । मरुभूतिचरस्थ पार्श्वस्य तव प्रिया प्रेयसी त्वत्प्रिया तस्याः । सन्निधौ समीपे । सामीप्ये सतीत्यर्थः । मया कमठचरेण शम्बरासुरेण मया । साधं समं । प्रणयरसिकैः प्रेमरसयुक्तैः । प्रेमजनितानन्दानुभवसहितैः । 'प्रणयः प्रेमविश्रम्भप्रश्रयप्रसरेऽर्थन' इति विश्वलोचने । इच्छारतैः यथाकामं निधुवनसेवनैः। इच्छया इच्छानुकूल्येन कृतानि रतानि मैथुनसेवनानि इच्छारतानि । तैः । शाकपार्थिवादित्वात्सः मध्यमपदलोपदर्शनात् । रतं रतिः । 'नब्भावे क्तोऽभ्यादिभ्यः । इति भावे क्तो नप् च । या रात्रिः या निशा मत्कामिन्या मम शम्बरासुरगुह्यकस्य कामिन्या कामाकुलचित्तया भार्यया क्षणं इव समयमात्रकालः इव । क्षणशब्दः उभयलिङ्गः । नीता यापिता । तां एव या निधुवनसेवनाप्ररूढामन्दानन्दस्यन्दिनी रात्रिः शम्बरासुरपल्या समयमात्रकाल इव शीघ्रतमं यापिता तामेव । विरहमहती लघ्वीमपि विरहेण हेतुभूतेन महत्त्वेन दीर्धत्वेन प्रतीयमानाम् । विरहेण महती विरहमहती । ताम् । रात्रि निद्राद्विभिः निद्राद्वेष्टुभिः । निद्रां द्वेष्टाति निद्राद्विड् । तैः । 'विप्' इति किम् । मुहुः वारंवारं उपचितैः उत्पद्य वृद्धिंगतैः पक्ष्मरुद्भिः पक्ष्माणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org