SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः] ३२३ उद्वेष्टनीयां निन्दन्ती; वक्त्रेन्दुग्रसनरसिकां श्रितां राहूमूर्ति वा, व्योमच्छायां, मदनशिखिनः धूमयष्टीयमानां, स्पर्शक्लिष्टां, कठिनविषमां तां एकवेणी अयमितनखेन करेण गण्डाभोगात् असकृत् सारयन्ती; संश्रितान् इष्टान् बन्धून् मृगयितुं इव जालमार्गप्रविष्टान् अमृतशिशिरान् इन्दोः पादान् पूर्वप्रीत्या सङ्ग्रहीतुं अभिमुखं गतं तथैव निवृत्तं सत् स्वनयनयुगं प्रत्याहृत्य चेतसा धूयमानां, शिशिरकिरणे स्वान् करान् जालमार्गः भूयोभूयः आतन्वाने गताभ्यागतैः खेदात् पुनः अपि क्लिश्यमानं चक्षुः सलिलगुरुभिः पक्ष्मभिः छादयन्ती [अतः एव ] साभ्रे अह्नि स्थलकमलिनी इव नप्रबुद्धां नसुप्तां तां साध्वी एवम्प्रायैः त्वयि सुभगतां व्यञ्जयद्भिः यथार्थैः मत्सन्देशैः सुखयितुं निशीथे सद्मवातायनस्थः पश्य । एवम्प्रायरित्यादि । अतः अस्मात् कारणात् । रात्रौ विरहजनितदुःखापनयनोपायाभावादित्यर्थः । पर्यस्तागी व्यत्यस्तावयवां । पर्यस्तानि इतस्ततोऽक्रमविन्यस्तानि अङ्गान्यवयवाः यस्याः सा । ताम् । विरहजनितदुःखाकुलितत्वाद् व्यत्यस्तावयवामित्यर्थः । कुसुमशयने पुष्पशव्यायां निस्सुखां सौख्यविकलां । कुसुमशव्यायाः कामोद्दीपकत्वात्तजनितदुःखापनयनोपायाभावाच्च तत्राऽप्यलब्धशारीरमानससुखामित्यर्थः । आधिरुद्धां दुःखाक्रान्तमनस्कां । आधिना मानस्या व्यथया रुद्धां परिवृतां आधिरुद्धां । ' बन्धक व्यसनं चेतःपीडाऽधिष्ठानमाधयः' इत्यमरः। अवनिशयनां भूमिशायिनी। अवनिः भूमिः एव शयनं शय्या शयनस्थानं वा यस्याः सा । ताम् । अवनी शेते इति अवनिशयना। ताम् । 'धरा वसुमती धात्री क्षमा विश्वम्भराऽवनिः' इति धनञ्जयः। शय्यायां शयने स्वपतिस्मृतिजनितविरहव्यथासम्भूतिभीत्या परित्यक्ततूलकल्पितानल्पतरूपामित्यर्थः । शीयतेऽत्रेति शयनं । 'करणाधारे चाऽनट ' इत्याधारेऽनट् । तेन शयनमित्यस्य शयनीयमित्यर्थः। चित्रन्यस्ता इव चित्रलिखितामिव । प्रयुक्तस्वमतिकौशलचित्रकारालिखितनयनाभिरामालेल्यमिव नयनाभिराममूर्तिमित्यर्थः । मन्मथीयां मदनस्य । मन्मथस्येयं मन्मथीया । ताम् । ' दोश्छः ' इति छः । सवपुषां सशरीरां । वपुषा सहितां सवपुषां । अवस्थां दशां । साक्षादुपात्तशरीरां कामावस्थामिति वाच्यार्थः । प्रवृद्धकामवासनामिति तात्पर्यार्थः । आधिक्षामां दुःखाक्रान्तमनस्कतया कृशीभूतवारीरां । आधिना मानसिक्या व्यथया क्षामा क्षीणशरीरा। ताम् । 'क्षो मः' इति क्षायतेस्ततकारस्य मादेशः । विरहशयने विरहशय्यायां । विरहे विरहकाले शीयतेऽत्रेति विरहशयनम् । तस्मिन् । सन्निषण्णेकपाश्वा समाश्रितस्वशरीरैकभागां । सन्निषण्णः समाश्रितः एकः पार्श्वः शरीरावयवविशेषः यस्याः सा । ताम् । विरहशय्यासमाश्रितशरीरैकाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy