________________
३२२
आधे बद्धा विरहदिवसे या शिखा दाम हित्वा जन्मन्यस्मादव्यवहिततरे वेणिका स्मर्यमाणा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयां स्वां निन्दन्तीं विरहवपुषां सङ्गमं वा विहाय ॥ ४८ ॥ तां वक्त्रेन्दुग्रसनरसिकां राहुमूर्ति श्रितां वा, व्योमच्छायां मदनशिखिनो धूमयष्टीयमानाम्
स्पर्शक्लिष्टा मयभितनखेनाऽसकृत्सारयन्ती
[ पार्श्वाभ्युदय
गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ ४९ ॥ पादानिदोर मृत शिशिरा खालमार्गप्रविष्टानिष्टान्बन्धूनिव मृगयितुं संश्रितान् सङ्ग्रहीतुम् । पूर्वप्रत्यागतमभिमुखं सन्निवृत्तं तथैव प्रत्याहृत्य स्वनयनयुगं चेतसा धूयमानाम् ॥ ५० ॥ भूयोभूयः शिशिरकिरणे स्वान्कराञ्जालमार्गेरातन्वाने पुनरपि गताभ्यागतैः क्लिश्यमानम् ।
Jain Education International
खेदाच्चक्षुः सलिल गुरुभिः पक्ष्मभिश्छादयन्तीं साऽह्रीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम् ॥ ५१ ॥ [ नवभिः कुलकम् । ]
अन्वयः- अतः पर्यस्ताङ्गीं, कुसुमशयने निःसुखां, आधिरुद्धां, अवनिशयनां, चित्रन्यस्तां इव, मन्मथीयां सवपुषं अवस्थां, आधिक्षामां, विरहशयने सन्निषण्णैकपार्श्वा, प्राचीमूले हिमांशोः कलामात्रशेषां तनुं इव, तापापास्त्यै हृदयनिहितां हारयष्टि दधानां त्वत्प्रियायाः सन्निधौ मया सार्धं प्रणयरसिकैः इच्छारतैः या रात्रिः मत्कामिन्या क्षणं इव नीता तां एव विरहमतीं [ रात्रिं ] निद्राद्विभिः मुहुः उपचितैः पक्ष्मरुद्भिः गलद्भिः उष्णैः अश्रुभिः यापयन्तीं स्वं अन्तस्तापं प्रपिशुनयता कवोष्णेन अधर किसलय क्लेशिना निःश्वासेन तन्मुखेन्दोः हरिणरचितं विश्लिष्टं लाञ्छनं वा शुद्धस्नानात् परुषं आगण्डलम्बं अलकं नूनं भूयः विक्षिपन्तीं मद्विश्लेषाद् उपहितशुचः दूरदेशस्थितस्य अनुचितानङ्गबाधस्य प्राणेशस्य स्वप्नजः अपि मत्संयोगः कथं जातु स्वयं उपनमेत् इति नयनसलिलोत्पीडरुद्धावकाशां निद्रां आकाङ्क्षन्तों, या अस्मात् व्यवहिततरे जन्मनि आद्ये विरहदिवसे दाम हित्वा वेणिका शिखा बद्धा (इति) मया स्मर्यमाणा तां स्वां शापस्य अन्ते विरवपुषां वः सङ्गमं विधाय विगलितशुचा ( त्वया)
For Private & Personal Use Only
www.jainelibrary.org