________________
३२८
[पार्धाभ्युदये
प्रत्यागतं सत् स्वनयनयुगं स्वकीय नेत्रयोर्युगलं प्रत्याहृत्य अपहृत्य । वियोगपूर्वकाले जनितानन्दनिष्यन्दाः शिशिरकरकिरणाः वियोगकालेऽपि पूर्ववदेव नेत्रयोरानन्दं जनयेयुरित्यभिप्रायेणेन्दुपादसङ्ग्रहार्थमभिमुखं गतं नयनयुगलं चन्द्रपादानां दुःखोत्पादकत्वमनुभूय तत्काले एव प्रत्यागतमपहृत्य चेतसा मनसा धूयमानां कम्पमानाम् । दूयमानामिति पाठेनात्र भाव्यं तस्य च पाड्यमानामित्यर्थो ग्राह्यः । शिशिरकिरणे सुधासूतौ । चन्द्रमसीत्यर्थः । शिशिराः शीतलाः किरणाः कराः यस्य सः । तस्मिन् । स्वान्, स्वकीयान् । 'स्वो ज्ञातावात्मनि स्वं तु - त्रिष्वात्मीये धनेऽस्त्रियाम्' इति विश्वलोचने । करान् मयूखान् । 'करस्तु पाणिप्रत्यायशुण्डारश्मिघनोपले ' इति विश्वलोचने । जालमार्गः गवाक्षविवरद्वारैः । ‘जालस्तु क्षारकानायगवाक्षे दम्भवृक्षयोः' इति विश्वलोचने। भूयोभूयः पुनः पुनः आतन्वाने विस्तार्यमाणे गताभ्यागतः गमनागमनैः । गतं गमनं च अभ्यागतं आगमनं च गताभ्यागतं । तैः । खेदात् विषादात् पुनःअपि क्लिश्यमानं पुनरपि पीड्यमानं चक्षुः नयनं सलिलगुरुभिः जलजडैः । सलिलेन अश्रुजलेन गुरूणि जडानि । तैः। पक्ष्माभिः लोचनलोमभिः । 'पक्ष्म लोचनलोमनि । पक्ष्म सूत्रादिसूक्ष्मांशे पक्ष्म स्यात्केसरेऽपि च' इति विश्वलोचने । छादयन्ती आवृतां कुर्वाणां अत एव साभ्रे मेघसहिते । 'घनाघनो घनो मेघो जीमूतोऽभ्रं बलाहकः' इति धनञ्जयः । अहि दिने । दुर्दिने इत्यर्थः । स्थलकमलिनी इव स्थलनलिनीमिव नप्रबुद्धां अविकसितां । दुर्दिनस्य घनाघनाक्रान्तव्योमप्रदेशत्वात्सूर्यकराक्रान्त्यसम्भवाद्यथा स्थलकमलिनी न विकसति तथा सा न विकसति स्म । न हादत इत्यर्थः। साध्वीपक्षेऽनाहादितामिति भावः । नमुप्तां असुप्तां । दुर्दिनस्य मेघाच्छादितान्तरिक्षत्वादपि सूर्यापायाभावाद्यथा स्थलपद्मिनी मुकुलभावं नाश्रयति तथा सापि मुकुलभावं नाश्रयति स्म । अश्रुजलजडपक्ष्मभिः अर्धप्रच्छादितनयनायाः अर्धमुकुलितकमलया स्थलकमलिन्या साधर्म्यमत्र प्रदर्शितम् । तां वसुन्धराचरी किन्नरकन्यकां साध्वी सच्छालसम्पन्नां एवम्प्रायः एवंप्रकारैः । एवंप्रायैरित्यादिकपूर्वगामिश्लोकोक्तप्रकारैरित्यर्थः । त्वयि भवद्विषये सुभगतां सौभाग्य व्यञ्जयाद्भिः प्रकटीकुर्वद्भिः यथाथैः अर्थगर्भः मत्सन्देशैः मदीयैः वाचिकैः सुखयितुं ह्रादयितुं निशीथे अर्धरात्रे निशायां वा । 'निशीथस्तु निशामात्रार्धरात्रयोः ' इति विश्वलोचने। सभवातायनस्थः सौधगवाक्षे स्थितः सन् पश्य विलोकय । इष्टकथनेन तां सुखयेत्यर्थः । तदुक्तं रत्नाकरे - ' सखी धात्री च पितरौ मित्रदूतशुकादयः । सुखयन्तीष्टकथनसुखोपायैर्वियोगिनीम् ॥' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org