________________
तृतीयः सर्गः ]
३१७
•
1
C
तीव्रचित्तोद्वेगव्यञ्जकमित्यर्थः । करुणविरुतं हृदयमा हिस्वरं । करुणानि हृदयग्राहीणि विरुतानि स्वराः यस्य तत् । विरुतानि विरावाः । ' नब्भावे क्तोऽभ्यादिभ्यः' इति क्तः नप् च । करुणाव्यञ्जकस्वरमित्यर्थः । विप्रलापायमानं करुणरसप्रधानगीतायमानं । विप्रलापः इवाचरतीति विप्रलापायते । ' क्यङ् च ' इति आचारे क्यङ् । विप्रलापायते इति विप्रलापायमानम् । विरचितपदं सुम्मिङादिपदरचनाविशेषयुक्तं । विशेषेण रचितानि पदानि यस्य तत् । गेयं गीतं मगोत्राङ्कं मदीयकुलभूषणं । मम गोत्रं कुलं मगोत्रं । ' गोत्रः क्षोणीधरे गोत्रं कुले क्षेत्रे च नाम्नि च । सम्भावनीयबोधेऽपि वित्ते वर्त्मनि कानने ' इति विश्वलोचने । तस्य अङ्कः भूषणं मगोत्राङ्कः । तम् । ' अङ्को रेखायां चिह्नलक्ष्मगोः । नाटकादिपरिच्छेदोत्सङ्गयोरपि रूपके । चित्रयुद्धेऽन्तिके मन्तौ स्थान भूषणयोरपि ' इति विश्वलोचने । यद्वा गोत्रस्य कुलस्य अङ्कः लक्ष्म नामधेयं गोत्राङ्कः । मम गोत्राङ्कः इक् गोत्राङ्कः यस्य सः । तम् । ' ईबुपमानपूर्वस्य सुखं गतार्थत्वात्' इति द्युभूतगोत्राङ्कपदस्य खम्। त्वां भवन्तं उद्दिश्य लक्षीकृत्य उद्गातुकामा उच्चैर्गातुमभिलषन्ती । उच्चैः तारस्वरेण गातुं कामः अभिलाषः यस्याः सा । ' सम्तुमोर्मनः कामे ' इति कामे परतः तुमो मकारस्य खम् । मूर्च्छनां आरोहावरोहक्रमविशेषस्थापितस्वरां गीतिकां । मूर्च्छनालक्षणं यथाक्रमात्स्वराणां सप्तानामारोहश्चावरोहणं । सा मूर्च्छत्युच्यते ग्रामस्था एताः सप्त सप्त च ' इति । प्रचलदलकं सालकचलनं । प्रकर्षेण चलन्तः विलोला: अलकाः कुन्तलाः यस्मिन्कर्मणि यथा स्युस्तथा । भावयन्ती अन्तर्जल्पन्ती । देवयोनिसम्भूतत्वाद्गान्धारग्राममन्तर्जरूपन्तीत्यर्थः । तदुक्तं - ' षड्जमध्यमनामानौ ग्रामो गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः' इति । कुसुममृदुभिः कुसुमसममार्दवैः । कुसुमानीव मृदूनि कुसुम मृदूनि । तैः । ' सामान्येनोपमानं' इति षसः । स्वाङ्गुल्यप्रैः स्वाङ्गुल्यप्रभागेः । स्वाः स्वीयाः अङ्गुल्यः स्वाङ्गुल्यः । तासामग्राणि स्वाङ्गुल्यग्राणि । तैः स्वाङ्गुल्यमैः । नयनसलिलैः नेत्राम्बुकणैः । नयनयोः नेत्रयोः सलिलानि अश्रुबिन्दवः नयनसलिलानि । तैः । ' पाथोऽर्णः सलिलं जलं ' इति धनञ्जयः। आर्द्राः क्लिन्नाः । ' आर्द्र साई क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च ' इत्यमरः । तन्त्रीः वीणातन्तून् । 'तन्त्री स्याद्वल्लकी गुणे ' इति विश्वलोचने । कथञ्चित् केनापि प्रकारेण । कृच्छ्रेणेत्यर्थः । सारयित्वा प्रमृज्य वल्लकीं वीणां । 'वीणा तु वल्लकी । विपञ्ची, सा तु तन्त्रीभिः सप्तभिः परिवादिनी' इत्यमरः । आस्पृशन्ती ईषत्स्पृशन्ती त्वदुपगमनं तवागमनं ध्यायं ध्यायं अभीक्ष्णं ध्यात्वा । पूर्वाग्रेप्रथमाभीक्ष्ण्ये खमुञ् ' इत्याभीक्ष्ण्यार्थे खमुञ् । शून्यचिन्तानुकण्ठी निःसारमनस्तापानुगतकण्ठस्वरवती । शून्या असारा चाऽसौ चिन्ता मनस्तापश्च शून्यचिन्ता । तया अनुगतः
८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org