________________
[पार्धाभ्युदये
पण्डितेऽपित' इति विश्वलोचने । मत्सादृश्यं मदीयप्रतिकृतितुल्यां त्वदीयां प्रतिकृति । मम सादृश्यं प्रतिच्छन्दकमिव सादृश्य मत्सादृश्यं । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस । 'युक्तवदुसि लिङ्गसङ्ख्ये' इति प्रकृतिवलिङ्गसङ्ख्ये । " यद्यपि सादृश्यं नाम प्रसिद्धवस्त्वन्तरगतं आकारसाम्यं तथापि प्रतिकृतित्वेन विवक्षित, इतरथा आलेख्यत्वासम्भवात्। अक्षय्यकोशे 'आलेख्येऽपि च सादृश्य' इत्यभिधानात्" इति मेघदूतटीकायां मल्लिनाथः । एतद्व्याख्यानं 'आलिख्याऽतो भवदनुकृति' इत्युक्तिमनुसृत्य कृतमित्यवसेयं सुधीभिः । लिखन्ती वा कचित्फलकादौ विरचयन्ती वा। विरहजनितदुःखीवनोदनोपायत्वात् प्रोषितभर्तृप्रतिच्छन्दकस्य तत्वचित्फलकादौ विरचयन्ती वसुन्धराचरी प्रोषितभर्तृकत्वात्सा वियोगिनी किन्नरकन्यकेति भावः । अतः अनन्तरं भवदनुकृति त्वदीयप्रतिच्छन्दकं । भवतः तव अनुकृतिः अनुकारः सादृश्यं भवदनुकृतिः । ताम् । आलिख्य कचित् फलके विन्यस्य चक्षुः नयनं उन्मील्य उद्धाट्य सजलनयनं साश्रुनेत्रम् । बाष्पाकुलचक्षुषेत्यर्थः । जलेनाश्रुणा सहिते सजले। 'वा नीचः' इति सहस्य सभावः। सजले नयने यस्मिन्कर्मणि यथा स्यातां तथा। पश्यन्ती वा अवलोकयन्ती वा । पञ्जरस्था पक्षिबन्धनगृहस्थाम् । श्येनादिहिनेभ्यः संरणवार्थ पशिबन्धनगृहे स्थापितामित्यर्थः । सारिकां पक्षिणीविशेषाम् । प्राक्तनी वसुन्धराचरीकालभाविनीं । प्राक् मरुभूतिभावसुन्धराकाले जाता भवा वा प्राक्तनी। ताम् । 'सायंचिरंपाहणेप्रगेझेः' इति जातार्थे भवार्थे वा तनट । टित्त्वास्त्रियां की। मन्यमाना प्रत्यभिजानती । मन्यते इति मन्यमाना । रसिके सौन्दर्यवति ज्ञानवति वा। रसः सौन्दर्य ज्ञानं वाऽस्त्यस्याः रसिका। भर्तुः पत्युः स्वामिनः वा कश्चित् स्मरसि स्मृतिविषयतां नयसि कच्चित् । त्वं मे भ्रातरं ते स्वामिनं च मरुभूतिं स्मरसीति मेऽभिप्रायः । 'कच्चित् कामप्रवेदने' इत्यमरः । 'कामप्रवेदनमिष्टपरिप्रश्नः' इति क्षीरस्वामी । अत्रोदाहरणं-' कच्चिज्जीवति मे माता कच्चिज्जीवति मे पिता । माराविद त्वां पृच्छामि कच्चिज्जीवति पार्वती ॥' इति । 'स्म्रर्थदयेशां कर्मणि' इति ता। त्वं भवती हि यतः हेतोः तस्य मम भर्तुः प्रिया अभिमता इति अमुना प्रकारेण मधुरवचनं मधुरोक्त्या । मधुरं वचनं यथा स्यात्तथा । पृच्छन्ती वा अनुयुञ्जाना वा । मलिनवसने मलदूषितवासोऽवगुण्ठिते । मलिनं मलीमसं मलदूषितं वसनं वाव: यस्य । तस्मिन् । 'मलादीमसश्च' इति मलान्मत्वर्थे इनः । कच्चरचीवरपरिधान किनरकन्यकाया विरहनिबन्धनमिति ख्यापनार्थ मलिनवसने इति विशेषणम् । उत्सो अङ्के। 'उत्सङ्गचिह्नयोरङ्कः' इत्यमरः । वीणां वल्लकी निक्षिप्य निधाय गाढोत्कण्ठं अत्यधिकचित्तोद्वेगं । गाढा अत्यधिका तीत्रा वा उत्कण्ठा चित्तोद्वेगः यस्मिन् । तत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org