________________
तृतीयः सर्गः ]
३१५
विप्रलापायमानं विरचितपदं गेयं मगोत्राङ्कं त्वां उद्दिश्य उद्गातुकामा मूर्च्छनां प्रचलदलकं भावयन्ती, कुसुममृदुभिः स्वाङ्गुल्यग्रे नयनसलिले: आर्द्राः तन्त्रीः कथञ्चित् सारयित्वा वल्लकीं आस्पृशन्ती, त्वदुपगमनं ध्यायं ध्यायं शून्यचिन्तानुकण्ठी स्वयं कृतां अपि मूच्र्छनां भूयः भूयः विस्मरन्ती, देवभावानुभावात् जन्मान्यत्वे अपि अधिगतिं इतान् विरहृदिवसस्थापितस्य अवधेः शेषान् मासान् स्मृत्यारूढान् स्वात्मनः मृत्युसन्धीन् स्फुटवितुं इव देहलीमुक्तपुष्पैः गणनया भुवि विन्यस्यन्ती वा, स्वपने हृदयरचितारम्भं सम्भोग बुद्ध्यध्यासात् त्वया अमा विस्पष्टभूयं इव आस्वादयन्ती वा, अथवा मूर्च्छासुप्ता स्त्रीभिः सभयं आश्वास्यमाना पुरा ते आलोके निपतति । रमणविरहेषु अङ्गनानां प्रायेण एते विनोदा: ।
"
आलोके इत्यादि सौम्य शान्तान्तरङ्ग साधो । 'बुधे सौम्योऽथ वाच्यवत् । बौद्धे मनोरमेऽनुग्रे पामरे सोमदेवते' इति विश्वलोचने । 'कसोमाट्ट्यण्' इति देवतार्थे सोमशब्दाद्व्यण् । सुन्दराद्यर्थेषूपचाराद्व्यण् । बलिव्याकुला प्रोषितभर्तृप्रत्यागमनार्थं पूजोपहारेषु देवताराधनेषु वा व्यापृता । बलिषु व्याकुला व्यापृता बलिव्याकुला । 'बलिचामरदण्डेऽपि करपूजोपहारयोः । सैन्धवेऽपि बलिः स्त्री तु जरसा श्लथचर्मणि । कुक्षिभागविशेषे च गृहकाष्ठान्तरे द्वयोः' इति विश्वलोचने । त्वत्सम्प्राप्त्यै भवत्सम्प्राप्त्यर्थं । भवन्तं प्राप्तुमित्यर्थः । ध्वर्थवाचोऽर्थात्कर्मणि' इत्यप् । देवताभ्यः देवताः प्राप्य 'प्यस्वे कर्माधारे' इति प्यखे कर्मणि का । भगवत्प्रतिमापादमूलं सम्प्राप्येत्यर्थः । यद्वा देवताः इव देवताः । 'देवपथादिभ्य' इतीवार्थस्य कस्योस् । 'युक्तवदुखि लिङ्गसङ्ख्ये ' इति प्रकृतिवल्लिङ्गसङ्ख्ये । जिनेन्द्रादिदेवतुल्याः ये गुरुजनाः तेभ्यः । तादृग्गुरुजनसकाशादित्यर्थः । विहितनियमान् शास्त्रोक्तानि व्रतानीत्यर्थः । विहिताः शास्त्रकारैः प्रतिपादिताः नियमाः ब्रतानि । 'नियमो निश्चये बन्धे यन्त्रणे संविदि व्रते इति विश्वलोचने । भजन्ती वा सेवमाना वा । बुद्ध्यारूढं मनसि कृतसंस्कारं । बुद्धौ मनसि आरूढं कृतारोहणं । मनसिकृतमित्यर्थः। चिरपरिचितं चिरात् प्राप्तपरिचयं । सुचिरमभ्यस्तमित्यर्थः । ज्ञातपूर्व पूर्वमेव ज्ञानविषयतां प्रापितं । पूर्व ज्ञातं ज्ञातपूर्व । ' क्तः' इति क्तान्तस्य पूर्वे प्रयोगः बसत्वात्। त्वद्गतं त्वां गतं । भवद्विषयकमित्यर्थः । 'इप्तच्छ्रितादिभिः' इति गतेन सह सः । विरह तनु विप्रलम्भजनिततानवं । विरहेण त्वत्तः वियोगेन तनु जनिततानवं । भावगम्यं अभिप्रायज्ञेयं । तस्याः त्वत्तः विरहस्य दीर्घकालभावित्वात्त्वत्कार्थस्य सम्प्रति तद्द्दृग्गोचरतामगतत्वात्सम्भावनमात्रेण त्वत्कार्थस्योत्प्रेक्ष्यत्वमित्यर्थः । ये ये गत्यर्थास्ते ते ज्ञानार्थाः इति न्यायेन गम्यमित्यस्य ज्ञेयमित्यर्थो ज्ञेयः । 'भावः स्वभावचेष्टाऽभिप्रायसत्त्वात्मजन्मनि । भावः क्रियायां लीलायां पदार्थेऽभिनयान्तरे । जन्तौ बुधे विभूतौ च नाट्योक्त्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org