________________
३१४
बुद्ध्यारूढं चिरपरिचितं त्वद्रतं ज्ञातपूर्व मत्सादृश्यं विरतनु वा भावगम्यं लिखन्ती || ३६ || आलिख्याsतो भवदनुकृतिं चक्षुरुन्मील्य कृच्छ्रा
त्पश्यन्ती वा सजलनयनं, प्राक्तनीं मन्यमाना । पृच्छन्ती वा मधुरवचनं सारिकां पञ्जरस्थां
कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ३७ ॥ उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां गाढोत्कण्ठं करुणविरुतं विप्रलापायमानम् । मगोत्राङ्कं विरचितपदं गेयमुद्रातुकामा
[ पार्श्वाभ्युदये
त्वामुद्दिश्य प्रचलदलकं मूर्च्छनां भावयन्ती ॥ ३८ ॥ तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथश्चित् स्वाङ्गल्यग्रैः कुसुममृदुभिर्वल्लकीमा स्पृशन्ती । ध्यायं ध्यायं त्वदुपगमनं शून्यचिन्तानुकण्ठी
भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ ३९ ॥ शेषान्मासान्विरदिव सस्थापितस्याऽवधेर्वा
जन्मान्यत्वेऽप्यधिगतिमितान् देवभावानुभावात् । विन्यस्यन्ती भुवि गणनया देहली मुक्तपुष्पैः
स्मृत्यारूढान् स्फुटयितुमिव स्वात्मनो मृत्यु सन्धीन् ॥ ४० ॥ बुद्ध्यध्यासात् स्वपन इव विस्पष्टभूयं त्वयाऽमा सम्भोगं वा हृदयरचितारम्भमास्वादयन्ती । मूर्च्छासुप्ता सभयमथवाऽऽश्वास्यमाना सखीभिः प्रायेणैते रमणाविरहेष्वङ्गनानां विनोदाः ॥ ४१ ॥ [ षड्भिः कुलकम् ]
अन्वयः - सौम्य ! बलिव्याकुला, त्वत्सम्प्राप्त्यै देवताभ्यः विहितनियमान् भजन्ती वा बुद्ध्यारूढं चिरपरिचित ज्ञातपूर्वं त्वद्वतं विरहतनु भावगम्यं मत्सादृश्यं लिखिती वा, अतः भवदनुकृति आलिख्य चक्षुः उन्मील्य सजलनयनं पश्यन्ती वा पञ्जरस्थांसारिकां प्राक्तनीं मन्यमाना 'रसिके । भर्तुः कच्चित् स्मरसि त्वं हि तस्य प्रिया' इति मधुरवचनं पृच्छन्ती वा, मलिनवसने उत्सङ्गे वीणां निक्षिप्य गाढोत्कण्ठं करुणविरुतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org