________________
३१८
[ पार्धाभ्युदये
कण्ठः कण्ठोत्पन्नः स्वरः यस्याः सा । ' नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाङगात्रकण्ठात् ' इति स्त्रियां डी । स्वयं आत्मना कृतामपि विरचितामपि मूर्च्छनां आरोहादिक्रमविशेषस्थापितस्वरां गीतिकां भूयो भूयः पुनः पुनः विस्मरन्ती मूछनाविरचनाकालजनितस्मृत्युबोधकसंस्कारोबोधं त्वदुपगमनचिन्तननिमममनस्कतयाऽकुर्वन्ती । देवभावानुभावात् देवत्वजनितमाहात्म्यात् । देवस्य भावः देवभावः । देवत्वमित्यर्थः । तस्य अनुभावः माहात्म्यं । तस्मात् । 'अनुभावः प्रभावे स्यान्निश्चये भावसूचके' इति विश्वलोचने । देवत्वजनितप्रभावादित्यर्थः । जन्मान्यत्वे अपि जन्मान्तरत्वेऽपि । जन्मनः भवस्य अन्यत्वं भिन्नत्वं जन्मान्यत्वं । तस्मिन् । अनेकजन्मभिरन्तरितत्वेऽपि अधिगति इतान् प्रमिति प्राप्तान । फलभूतज्ञानावस्थां प्राप्तानत एव परिगणितानिति भावः । विरहदिवसस्थापितस्य वियोगदिनबलानिश्चितस्य । विरहस्य वियोगस्य दिवसः विरहदिवसः । तेन तस्माद्वा स्थापितस्य निश्चितस्य अषधेः अन्तस्य । विरहारम्भान्तयोरन्तरालवर्तिनः विप्रयोगकालप्रमाणस्वेत्यर्थः। शेषान् मासान् गतावशिष्टान्मासान् स्मृत्यारूढान् बुद्ध्यारूढान् । स्मृतिः बुद्धिः । 'स्मृतिस्तु धर्मशास्त्रे स्यात् स्मरणे धीच्छयोरपि' इति विश्वलोचने । तत्र आरूढाः कृतसंस्काराः स्मृत्यारूढाः। तान् । बुद्धिकृतधारणानित्यर्थः । स्वात्मनः स्वदेहस्य। स्वस्य आत्मा देहः स्वात्मा। तस्य । 'आत्मा ब्रह्ममनोदेहस्वभावधृतिबुद्धिषु' इति विश्वलोचने। मृत्युसन्धीन् मरणकालान् । 'सन्धिः पुंसि सुरङ्गायां रन्ध्रसङ्कटने भगे । सन्धिर्भागेऽवकाशेऽपि वाटसझेऽपि पुंस्ययम्' इति विश्वलोचने । स्फुटायितुं इव प्रकटीकर्तुमिव । देहलीमुक्तपुष्पैः बुध्नोदुम्बरन्यासीकृतकुसुमैः । देहल्यां बुध्नोदुम्बरे मुक्तानि न्यासीकृतानि देहलीमुक्तानि । तानि च तानि पुष्पाणि देहलीमुक्तपुष्पाणि । तैः । ' गृहावग्रहणी देहली' इत्यमरः । 'बुध्नोदुम्बरामिति सभ्योऽर्थः' इति क्षीरस्वामी । गणनया एकद्व्यादिपरिसंख्यानेन हेतुभूतेन । परिगणनार्थमित्यर्थः । भुवि भूतले विन्यस्यन्ती वा निक्षिपन्ती वा । स्वपने स्वापदर्शने । 'स्वप्नः स्वापधीदर्शने' इति विश्वलोचने । हृदयरचितारम्भ मनःसङ्कल्पविहितोपक्रमं । हृदये मनसि रचितः सङ्कल्पविहितः आरम्भः उपक्रमः यस्य सः । तम् । यद्वा मनोव्यापारजनितालिङ्गनचुम्बनादिव्यापारमित्यर्थः । सम्भोगं निधुवनक्रियां । 'रते भोगे च सम्भोगः सम्भोगो जिनशासने' इति विश्वलोचने । बुद्ध्यध्यासात् बुद्धिजनितभ्रान्तेः । स्वप्ने यथार्थसम्भोगाभावेऽपि बुद्ध्या तत्सद्भावप्रकल्पनात् इत्यर्थः । त्वया अमा भवता समं विस्पष्टभूयमिव स्पष्टतरत्वेनेव । विशेषेण स्पष्टं विस्पष्टं । विस्पष्टभवनं विस्पष्टभूयं । विशेषेण स्पष्टा क्रिया यथा स्यात्तथेति भावः । साक्षान्मैथुनोपसेवनमिवेत्यर्थः । आस्वादयन्ती वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org