SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ (39) अवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्राप्यभिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाऽङगीकृतः । ध्वनिकारः पुनरभिधातात्पर्य लक्षणास्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्याऽवश्याभ्युपगम्यत्वाद्व्यापारस्य च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्यङग्यरूपस्य गुणालडकारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्तितवान् । व्यापारस्य विषय मुखेन स्वरूपप्रतिलम्भात् तत्प्राधान्येन प्राधान्यात्स्वरूपेण विदितत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम्। तस्माद्विषय एव व्यङग्यनामा जीवितत्वेन वक्तव्यः यस्य गुणालङकारकृतचारुत्वपरिग्रहसाम्राज्यम् । रसादयस्तु जीवितभूता नाऽलङकारत्वेन वाच्याः; अलङक्राराणामुपस्कारकत्वात्, रसादीनां च प्राधान्येनोपस्कार्यत्वात् । तस्माद्व्यङग्य एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः व्यञ्जनव्यापारस्य सर्वैरनपहूनुतत्वात्तदाश्रयेण च पक्षान्तरस्याऽप्रतिष्ठानात् । यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङिगतया व्यञ्जनस्यानुमानान्तर्भावमाख्यत् तत् वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्त्यभावादविचारिताभिधानम् । तदेतत्कुशाग्रधिषणः क्षोदनीयमतिगहनगहनमिति नेह प्रतन्यते॥ - अलङकारसर्वस्वे राजानकरुय्यकः । Ācārya Jinasena, in my opinion, seems to have been of the opinion that a composition consisting in various metres can be entitled as a fou only when it charms the hearts of those who are capable of appreciating merits. According to him, employment of pleasing words, conveyance of attractive ideas, adoption of various figures of speech, importing sentiments, diction etc. are only the means of making the composition capable of having the occult power of delighting those who are appreciators of merits. Anyhow, a poetic composition must be capable of giving pleasure to the hearts of the qualified. Some illustrations of शब्दचित्रकाव्य are given below for providing information to the learned who are proficient in the science of rhetorics. का कः श्रयते नित्यं का की सुरतप्रियाम् । का नने वदेदानी च रक्षरविच्युतम् ॥ २४१ ।। [ कामुकः श्रयते नित्यं कामुकी सुरतप्रियाम् । कान्तानने वदेवानी चतुरक्षरविच्युतम् ॥ २४१॥] [एकाक्षरच्युतकपादकम् । ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy