________________
३१२
[पार्धाभ्युदये
शिखरे क्रीडाईप्रस्थे सचम्पकपादपशङ्गे वा । रम्यः मनोहरः क्रीडाई: सचम्पकपादपः वा सानुः शङ्गं यस्य सः। तस्मिन् । रम्यः मनोहरः रतिक्रीडाईः वा। 'रम क्रीडायां' इत्यस्माद्धोरहार्थे ' तृज्व्याश्चाहे' इति व्यत्यः । रम्याः चम्पकपादपाः सन्त्यस्येति रम्यः। 'ओऽनादिभ्यः' इत्यत्यः मत्वर्थीयः । ' रम्यं त्रिषु मनोरमे। रम्या विभावरी रम्यः पुंसि चम्पकपादपे' इति विश्वलोचने । 'स्नुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः । 'सानुः शृङ्गे बुधेऽरण्ये वात्यायां पल्लवे पाथि' इति विश्वलोचने । क्रीडाशले क्रीडाहेतोः पर्वते निषण्णः उपविष्टः सन् । 'षद्ल विशरणगत्यवसादनेषु' इत्यस्माद्धोस्ततकारे परतः 'द्रात्तस्य तो नोऽमत्पमूछो ' इति ततकारस्य पूर्वस्य च दस्य नत्वं । ' सदोऽप्रतः' इतीणन्ताद्ः परस्य सदेः सकारस्य षत्वं । 'रो नो णोऽभिन्ने' इति नस्य णत्वम् । विरहविधुरां वियोगजनितदुःखां । 'विधुरं विकलेऽन्यवत्' इति विश्वलोचने । त्वत्तः त्वयि विषये । त्वमधिकृत्येत्यर्थः । 'सार्वविभक्तिकस्तसिः' इति तसिरत्र विषयसप्तम्यर्थे । आधि मानसी पीडां । 'पुस्याधिश्चित्तपीडायां प्रत्याशायां च बन्धके । व्यसने चाप्यधिष्ठाने' इति विश्वलोचने । दधानां धारयन्ती । तां प्रेयसी प्रकर्षण प्रियां तां किन्नरकन्यकां मद्वचःप्रत्ययेन मद्वचने विश्वस्य । मम वचः वचनं मद्वचः । तस्मिन् प्रत्ययः विश्वासः। तेन । अमुष्यां अस्यां उपवनभुवि उद्यानभूमौ पश्य प्रेक्षस्व ।
Believing in my words, you, having quickly assumed the forma like that of the cub of an elephant for the sake of moving rapidly, seated on the aforesaid pleasure-mountain with a beautiful peak [or with a peak having Champaka-trees grown on it or with a peak serving as a pleasure-abode ], should have a look, in that garden, at that beloved one, involved in mental anguish with reference to you, overwhelmed with grief provoked by separation ( from you ).
नो चेदन्तर्गृहमधिवसेत्सा दशामुद्रहन्ती
गूढ़ दृष्टुं समभिलषितां तां तदा तत्स्थ एव । अहस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं
___ खद्योतालीविलसितनिभां विधुदुन्मेषदृष्टिम् ॥ ३५ ॥ ... अन्वयः- नो चेत्, तदा दशां उद्वहन्ती सा अन्तर्यहं अधिवसेत् । समभिलषितां तां गूढं दृष्टुं तत्स्थः एव अल्पाल्पभासं खद्योतालीविलसितानिभां विद्युदुन्मेषदृष्टिं अन्तर्भवनपतितां कर्तुं अर्हसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org