SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये पिष्टकादेिवर्णलिखित रेखाजनिताकृती । लिखिते रेखाजनिते वपुत्री आकृती ययोः तौ । शङ्खपद्मौ शङ्खपद्माभिधानौ निधिविशेषौ । ' शङ्खः कम्बुललाटास्थिनखीनिधिषु न स्त्रियाम् ' इति ' पद्मोऽस्त्री पद्मनालेऽब्जे व्यूहसङ्ख्यान्तरे निधौ । पद्मके नागभेदे ना ' इति च विश्वलोचने । दृष्ट्वा च अवलोक्य च मद्गृहं लक्षयेथाः अभिजानीहि । T ३१० Between her and my young lady there exists a relation of inseparable friendship; I therefrom have come to know that, in my house, she is involved in distress ; I am a right resident in that (house of mine). O sage! by means of these distinctive marks, therefore, committed to memory (lit. stored up in your heart) and on seeing the figures of Samkha and Padma represented by drawing lines on the sides of the door, you would find out my house. तस्या दुःखप्रशमनविधौ व्यापृते मत्कलत्रे मुकीभूतेऽप्यनुचरजने मन्दमन्दायमाने । क्षामच्छायं भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्यान् ॥ ३३ ॥ अन्वयः - - मत्कलत्रे तस्याः दुःखप्रशमनविधौ व्यापृते, मन्दमन्दायमाने अनुचरजने अपि मूकीभूते अधुना भवनं मद्वियोगेन नूनं क्षामच्छायं [ स्यात् ]; सूर्यापाये कमलं स्वां अभिख्यां न खलु पुष्यति । तस्या इत्यादि । मत्कलत्रे महिन्यां । मम कलत्रं गेहिनी मत्कलत्रं । तस्मिन् । भाष जाया जनिः कुल्या कलत्रं गेहिनी गृहम् ' इति धनञ्जयः । तस्या वसुन्धराचर्याः किन्नरकन्यकायाः दुःखप्रशमनविधौ त्वद्वियोगजनितदुःखोपशमन क्रियायां । दुः त्वद्वियोगजनिताधेः प्रशमनमुपशमनं दुःखोपशमनं । तस्य विधिः क्रिया दुःखप्रशमनविधिः । तस्मिन् । ' विधिर्वेधसि काले ना विधाने नियतौ स्त्रियाम् ' इति विश्वलोचने । व्यापृते निमने | मन्दमन्दायमाने मन्दप्रकारोद्यमे । मन्दप्रकारः मन्दमन्दः । मन्दसदृशः इत्यर्थः । ' प्रकारे गुणोक्तेर्वा ' इति द्वित्वम् । मन्दमन्दः शीतकः इव आचर - तीति मन्दमन्दायमानः । तस्मिन् । ' क्यङ् च' इत्याचारेऽर्थे कर्तुः क्यड् । शीतकाचारे इत्यर्थः । अनुचरजने अपि सेवकजने अपि मूकीभूते वाचंयमत्वं प्राप्ते | अमूकाः मूकाः सम्पन्नाः मूकीभूताः । च्विः । अधुना साम्प्रतकाले । ' एतर्हि सम्प्रतीदानी - मधुना साम्प्रतं तथा' इत्यमरः । भवनं मदीयमगार मद्वियोगेन मत्प्रवासजनितवि J Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy