SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः] ३०९ Taking for a matchless banner as if of the flower-arrowed god the roosting perch on which, at the time of sunset, roosts the peacock, your friend of the former birth ), made to dance by my wife keeping time with the clappings of the hands, rendered charming by her jingling bracelets, love-sick ladies worship it; also that faithful spinster, crying very much, worships it with a desire to secure you. प्रीतिस्तस्या मम च युवतेनिर्विवेका; ततोऽहं जानाम्येनां व्यसनपतितां मद्गृहे; तचरोऽहम् । । एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथाः ___ द्वारोपान्ते लिखितवपुषौ शङ्कपद्मौ च दृष्ट्वा ।। ३२॥ अन्वयः- तस्याः मम च युवतेः निर्विवेका प्रीतिः [अस्ति ]; ततः अहं एना मद्गृहे व्यसनपतितां जानामि; तच्चरः अहम् । [ ततः भो] साधो एमिः हृदयनिहितैः लक्षणैः, द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ दृष्ट्वा च [ मद्गृहं ] लक्षयेथाः । प्रीतिरित्यादि । तस्याः वसुन्धराचर्याः किन्नरकन्यकायाः मम च मदीयायाश्च युवतेः तरुण्याः। मम भार्यायाश्चेत्यर्थः। 'यूनस्तिः' इति तिः । 'तरुणी युवतिः समे' इत्यमरः । 'नितम्बिन्यबला बाला कामुकी वामलोचना। भामा तनूदरी रामा सुन्दरी युवती चला' इति धनञ्जयः। निर्विवेका अवियोज्या। विवेकाद्वियोगान्निष्क्रान्ता निर्गता निर्विवेका । प्रीतिः मैत्री। अस्तीति शेषः । ततः यस्मात्कारणात् मद्भार्याकिन्नरकन्यकयोरविभेद्या मैत्री तस्मात्कारणात् । अहं एनां वसुन्धराचरी किन्नरकन्यका मद्गृहे मामकीनेऽगारे व्यसनपतितां देवानिष्टफले दुःखे विपत्तौ वा निमग्नां । व्यसने देवानिष्टफले विपत्तौ वा पतिता निमना व्यसनपतिता। ताम्। 'व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु । दैवानिष्टफले पाके विपत्तौ विफलोद्यमे ॥ सक्तिमात्रे सुचरिताद्भशे कोपजदूषणे' इति विश्वलोचने । जानामि अवैमि। यतः तच्चरः अहम सद्गृहचरोऽहम् । यतोऽहं मद्गृहवास्तव्यः ततोऽहं सा व्यसनपतितेति मद्गृहिणीमुखेन नानामि । तच्च तस्याः दुःखं त्वद्विप्रलम्भजनितम् । अतस्तत्र त्वयाऽवश्यं गन्तव्यमिति कमठचरशम्बरासुराभिप्रायः। ततः भो साधो मेघाकारपरिणतस्वकायमुने । 'तपस्वी ज्यमी योगी वर्णी साधुश्च' इति धनञ्जयः। एभिः पूर्ववर्णितैः हृदयनिहितैः मनसिकृतैः । पूर्वोक्तानि तोरणादीनि प्रत्यभिज्ञानसाधनानि मनसिकृत्येत्यर्थः । लक्षणः अलकास्थितान्यगृहासाधारणैरभिज्ञानलिङ्गः द्वारोपान्ते द्वारपार्श्वयोः लिखितवपुषी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy