________________
३०८
[पार्धाभ्युदय
तालैः शिजावलयसुभगैः कान्तया नर्तितो मे ___यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृतः ॥ ३१॥ ..
अन्वयः - मे कान्तया शिक्षावलयसुभगैः तालैः नर्तितः वः सुहृद् नीलकण्ठः दिवसविगमे या अध्यास्ते तां कुसुमधनुषः एका वैजयन्ती इव मत्वा कामिन्यः अर्चन्ति । प्रबलरुदिता सा साध्वी अपि त्वदाप्त्यै [ ता अर्चति ।
तामित्यादि । मे मम कान्तया दयितया । 'वल्लभा प्रेयसी प्रेष्ठा रमणी दयिता प्रिया । इष्टा च प्रमदा कान्ता चण्डी . प्रणयिनी तथा' इति धनञ्जयः। शिक्षावलयसुभगैः शिक्षावदलयमनोहरेः। शिञ्जावन्ति वलयानि शिञ्जावलयानि । शाखावृक्षवत्समासः । शिक्षा भूषणध्वनिः । भूषणानां तु शिञ्जितं' इत्यमरः । 'विद्भिदादिभ्योऽङ्' इति भावेऽकर्तर्यङ् । यद्वा शिक्षाप्रधानानि वलयानि इति विग्रहः । तेः सुभगाः मनोहरः । तैः । 'शिञ्जि अव्यक्ते शब्दे' इत्यस्य धातोरात्मनेपदित्वात्ततः शतृप्रत्ययस्यासम्भावात् 'शिअदलयसुभगैः' इति पाठः न साधुतामावहति । तालैः करतलकृतास्फोटः गानकालक्रियामानैर्वा । गानकालस्य क्रियया आवापनिष्क्रमादिकया मानं परिच्छेदकं प्रतिष्ठाहेतुस्तालः । गानक्रियायाः कालनियमहेतुर्वा तालः । ' गीतकालक्रियामाने ताला खड्डादिमुष्टिषु । तालः स्यात्कांस्यरचितवाद्यभाण्डान्तरे तथा । करास्फारे करतले तालं तु हरितालके' इति विश्वलोचने । नर्तितः नाटितः वः भवतः सहत प्राग्भवसम्बन्धि मित्रं नीलकण्ठः शिखण्डी। 'मयूरो बर्हिणः केकी शिखी प्रावृषिकस्तथा। नीलकण्ठः कलापी च शिखण्डी' इति धनञ्जयः । नीलः कण्ठः यस्य सः नीलकण्ठः । दिवसविगमे दिनावसाने । सायाह्ने इत्यर्थः । यां वासयष्टिं अध्यास्ते अधितिष्ठति। 'कमैवाधेः शीस्थासः' इत्याधारस्य कर्मसज्ञत्वात् 'कर्मणाप्' इति इप् । तां वासयष्टिं कुसुमधनुषः पुष्पधन्वनः कामस्य । एका अद्वितीयां मुख्यां वा वैजयन्ती इव पताकामिव । 'ध्वज पताका केतुश्च चिह्नं तद्वैजन्त्यपि' इति धनञ्जयः । मत्वा विज्ञाय कामिन्यः कामाकुलाः योषितः। 'ललना कामिनी योषिद्योषा सीमन्तिनी वधूः' इति धनञ्जयः। अर्चन्ति सपर्या कुर्वन्ति । प्रबलरुदिता प्रबलं रुदन्ती । प्रबलं रुदितं रोदन यस्याः सा। सा वसुन्धराचरी किन्नरकन्यका । साध्वी अपि एकपत्नी अपि । पतिव्रतेत्यर्थः । अनेन तस्याः शीलभ्रंशाभावः प्रकटीकृतः। 'सती पतिव्रता साध्वी पतिवल्येकपल्यपि । मनस्विनी भवत्यार्या' इति धनञ्जयः । त्वदाप्त्यै भवत्सम्प्राप्त्यर्थं तां वासयष्टिमर्चतीति शेषः । 'अर्थवशाद्विभाक्तिविपरिणामः' इति न्यायादर्चन्तीत्यस्य अर्चतीति परिणमनं वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org