________________
तृतीयः सर्गः ]
३०७
निहितं अध्यवसितमृतेः मूलं वा सा अनतिप्रौढवंशप्रकाशैः मणिभिः मूले बद्धा, बहिणा अधिष्ठिताग्रा स्फटिकफलका काञ्चनी वासयष्टिः लक्ष्यते ।
I
मूलमित्यादि । तन्मध्ये च तयोः अशोककेसरवृक्षयोः मध्यभागे । तयोः अशोक केसरयोः मध्यं मध्यभागस्थितः प्रदेशः तन्मध्यं । तत्र । 'मध्यं न्याय्येऽवकाशे च मध्यं मध्यस्थिते त्रिषु । लग्नकेऽप्यधमे मध्यमस्त्रियामवलग्नके' इति विश्वलोचने । या त्वद्वियोगात् त्वत्तः तव वा वियोगाद्धेतोः तस्याः वसुन्धराचर्या: किन्नर कन्यकायाः मनसि हृदये अद्य इदनीन्तनकाले उच्चैः अत्यर्थे निहितं निखातं अध्यवसितमृतेः निश्चितस्य मरणस्य । अध्यवसिता निश्चिता चाऽसौ मृतिर्मरणं च अध्वसितमृतिः । तस्याः । मूलं कारणं शिफा वा । वाइवसा काञ्चनी वासयष्टिः अनतिप्रौढवंशप्रकाशैः अनतिवृद्धिमत्कीचकप्रकाशसंकाशच्छायैः । वहन्ति स्म ऊढाः । प्रकर्षेण ऊढाः प्रौढाः वृद्धि प्राप्ताः इत्यर्थः । प्रादूढे परतः 'प्रादूहोढोढ्येषैष्ये' इत्यूतः ऐप् । अतिशयेन प्रौढाः अतिप्रौढाः । न अतिप्रौढाः अनतिप्रौढाः । ईषद्वृद्धिमन्तः इत्यर्थः । अनतिप्रौढाश्च ते वंशाः कीचकाश्च अनतिप्रौढवंशाः । तेषां प्रकाशः इव प्रकाशः येषां ते । तैः । 'ईबुपमानपूर्वस्य द्युखं गतार्थत्वात्' इति खम् । मणिभिः गारुत्मतमणिशिलाभिः मूले निखन्यमानयष्टिपर्यन्तदेशे बद्धा परितः रचितवेदिका बर्हिणा मयूरेण । बर्हः कलापः अस्य अस्तीत बर्हीीं । तेन । अधिष्ठितामा अधिष्ठितोर्ध्वभागा । अधिष्ठित व्याप्तं अयं उपरिष्ठः अन्तः यस्याः सा । स्फटिक फलका स्फटिकमणिमयाधिष्ठानफलका । स्फटिकं स्फाटिकमबिहुलं फलकं अस्ति यस्याः सा । बहवः स्फटिकाः सितमणयः सन्त्यस्येति स्फटिकम् | 'ओभ्रादिभ्यः' इत्येवात्यः मत्वर्थीयः । काञ्चनी सुवर्णघटितां । काञ्चनस्य विकारः काञ्चनं । ' तस्य विकारः' इत्यण् । 'इटिकाणञ्-' इति स्त्रियां ङी । वासयष्टिः निवासस्थानभूतः दण्डुः । लक्ष्यते दृग्गोचरतां याति । दृश्यते इत्यर्थः ।
Moreover, a golden roosting perch, the root, firmly fixed in her mind, as if of death decided [ by her ] to be brought about on account of her being separated from you, inlaid at the bottom with jewels having lustre like that of the bamboos not ripened very much [not very mature], having its top occupied by a peacock, with a crystal slab, is seen standing between them.
तां कामिन्यः कुसुमधनुषो वैजयन्तीमिवैकां मत्वार्चन्ति प्रबलरुदिता सापि साध्वी त्वदाप्त्यै ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org