________________
३०४
[ पार्धाभ्युदये
The face, reposed in her hands, not fully discernible owing to the tresses of her hair dangling [about her face ], of hers, meditating upon you on closely embracing a pillow with soft surface, having all her limbs let loose on the expansive bed on account of [ her ] separation [ from you ], I think, might be in a state gloomy like that of the moon having her lustre spoiled by your approach near her.
तस्याः पीडां रहयितुमलं तौ च मन्ये मृगाक्ष्याः
मद्हिन्याः सह सहचरी सेवते यो द्वितीया । रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ॥२८॥ अन्वयः-अत्र चलकिसलयः रक्ताशोकः, कान्तः केसरः च [ इति ] यो कुरबकवृतेः माधवीमण्डपस्य प्रत्यासन्नौ मनेहिन्याः सहचरी [ तव च] द्वितीया सह सेवते तौ च तस्याः मृगाक्ष्याः पीडां रहयितुं अलं [ इति ] मन्ये । __ तस्या इत्यादि । अत्र गृहोद्याने चलकिसलयः प्रचलत्पल्लवः रक्ताशोकः रक्तवर्णप्रसवप्रसुः स्मरवर्धनः अशोकः । लोहितवर्णप्रसूनप्रसविताऽशोकः स्मरवर्धनः इत्युक्तमशोककल्प। "प्रसूनकैरशोकस्तु श्वेतो रक्त इति द्विधा । बहुसिद्धिकरः श्वेतो रक्तोऽत्र स्मरवर्धनः ' इत्यशोककल्पे दर्शनात्” इति सञ्जीवन्यां मल्लिनाथः। कान्तः मनोहरः । ‘कान्तो रम्ये प्रिये त्रिषु ' इति विश्वलोचने। केसरः च बकुलश्च । 'केसरो बकुले सिंहच्छटायां नागकेसरे । पुन्नागेऽस्त्री तु किचल्के स्यात्तु हिंगुनि केसरम्' इति विश्वलोचने । इति यौ अशोककेसरौ। कुरबकवृतेः अरुणपुष्पझिण्टिकावेष्टनस्य । कुरबक एव वृतिः वेष्टनं यस्य । तस्य । 'कुरबकः पुंसि शोणाझण्टिकाऽम्लानभेदयोः' इति 'वृतिर्विवरणे वाटे वेष्टिते वरणे वृतम्' इति च विश्वलोचने । माधवीमण्डपस्य वासन्तीलतामण्डपस्य । मधौ वसन्ते भवा माधवी । ' तत्र भवः' इत्यण् । 'इटिडाण' इति स्त्रियां डी । उक्तं च- ' अतिमुक्ता माधवी च सुवसन्तो वनाश्रयः। अतिमुक्तः कामुकश्च मण्डको भ्रमरोत्सवः' । इति । 'अतिमुक्तः पुण्ड्रकः स्याद् वासन्ती माधवी. लता' इत्यमरः । 'माधवी । मधूत्थशर्करामद्यकुहनीष्वतिमुक्तके' इति विश्वलोचने । प्रत्यासन्नौ समीपवर्तिनौ मद्गहिन्याः मम कलत्रस्य । 'भाया जाया जनिः कुल्या कलत्रं गेहिनी गृहम् ' इति धनञ्जयः । सहचरी वयस्या । 'वयस्याली सहचरी सध्रीची सवयाः सखी' इति धनञ्जयः। सह चरतीति सहचरी । 'चरोऽट्' इत्यत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org