SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः] ३०५ टित्वास्त्रियां डी. । तव च द्वितीया वसुन्धराचरी पत्नी । 'द्वितीया तिथिभित्पल्योः पूरणेऽपि द्वयोस्त्रिषु' इति विश्वलोचने। सह समं । युगपदित्यर्थः । ' सहशब्दस्तु साकल्ययोगपद्यसमृद्धिषु । सादृश्ये विद्यमानेऽपि सम्बन्धेऽपि सह स्मृतम्' इति विश्वलोचने । सेवते उपचरति । तौ च अशोककेसगै च तस्याः तव भार्याया वसुन्धराचर्याः मृगाक्ष्याः मृगनयनायाः। मृगस्येव अक्षिणी यस्य सः मृगाक्षः। 'स्वाङ्गाद्वेऽक्षिसक्थ्नः' इति टः। टित्वास्त्रियां की। मृगाक्षी । तस्याः । पीडां विप्रलम्भजनितदुःखं रहयितुं परिहर्तुं अलं समर्थौ इति मन्ये सम्भावये । And I think both the red Asoka, with its foliage swinging with to-and-fro motion, and the beautiful Kesara ( Bakula ), standing close by the bower of Madhavi creepers surrounded with the hedge of Kurbaka (plants), upon which your beloved (of the former birth), my wife's associate, attends simultaneously, are able to dispel the distress of that fawn-eyed one. कामस्यैकं प्रसवभवनं विद्धि तौ मनिवेशे महिन्या विरचिततलौ सेवनीयौ प्रियायाः। एकः सख्यास्तष सह मया वामपादाभिलाषी काङ्कत्यन्यो वदनमदिरां दौहृदच्छमनाऽस्याः ॥२९॥ अन्वयः- मन्निवेशे मया सह मद्गहिन्या विरचिततली, तव प्रियायाः सख्या सेवनीयौ तौ कामस्य एकं प्रसवभवनं विद्धि । [ तयोः ] एकः दौहृदच्छद्मना अस्याः वामपादाभिलाषी, अन्यः [ अस्याः ] वदनमदिरा काङ्क्षति । कामस्येत्यादि । मनिवेशे महोपवनप्रदेशे मद्विवाहसमये वा । मम निवेशा मानिवेशः। तस्मिन् । अत्र लक्षणया गृहोद्यानदेशे इत्यर्थः ग्राह्यः, गङ्गायां घोषः इत्यस्य गङ्गातीरे इत्यर्थवत्, गृहदेशे तलविरचनायाः असम्भवात् । यद्वा निवेशशब्दः विवाहार्थवचनः । 'निवेशः शिबिरे पुंसि तथोद्वाहविनाशयोः ' इति विश्वलोचने । मया सह मया शम्बरयक्षेण समं मगोहिन्या मम भार्यया विरचिततलौ विरचिताधारौ। विरचितालवालौ विरचितवेदिको वेत्यर्थः । ' स्वरूपाधारयोस्तलम्' इति विश्वलोचने । विरचिते तले ययोः तो विरचिततलौ। तव भवतः प्रियायाः प्रेयस्याः सख्याः सहचारिण्याः सेवनीयौ उपचरणीयौ । 'व्यस्य वा कर्तरि' इति कर्तरि ता । तव प्रियया सख्या सेवनीयावित्यर्थः। तौ अशोककेसरी कामस्य कामवासनायाः। रिरंसायाः पार्श्वभ्युदये...२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy