SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः 7 ३०३ Her face, imitating the disc of the moon, with eyes swollen owing to her crying bitterly, with lower and upper lips having their colour changed owing to the hotness of the multiplicity of sighs, might have been changed owing to the sleep of hers, thinking constantly upon a union with you for many nights, being broken. त्वां ध्यायन्त्या विरहशयनाभोगमुक्ताखिलायाः शङ्के तस्या मृदुतलमवष्टभ्य गण्डोपधानम् | हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा wwww दिन्दोर्दैन्यं त्वदुपसरणक्लिष्टकान्तेर्बिभर्ति ॥ २७ ॥ अन्वयः - विरहशयनाभोगमुक्ताखिलायाः मृदुतलं गण्डोपधानं अवष्टभ्य त्वां ध्यायन्त्याः तस्याः लम्बालकत्वात् असकलव्यक्ति हस्तन्यस्तं मुखं त्वदुपसरणक्लिष्टकान्तेः इन्दोः दैन्यं बिभर्ति [ इति ] शङ्के । त्वमित्यादि । विरहशय नाभेोगमुक्ताखिलाङ्ग्ग्याः विरहसंवेदनजनितदुःखेन शय्याविस्तारे न्यस्तनिखिलगात्रायाः | शयनस्य शय्यायाः आभोगः प्रसरः शयनाभोगः । तत्र मुक्तानि न्यासीकृतानि शयनाभोगमुक्तानि । अखिलानि च तानि अङ्गानि अव - यवाः चाखिलाङ्गानि । विरहेण शयनाभोगे मुक्तानि विरहशयनाभोगमुक्तानि । तानि तादृशानि अखिलाङ्गानि यया सा । तस्याः । विरहशयनं दम्पतीद्वन्द्वशयनान शयनं 1 विरहशयनस्याभोगः प्रसरः विरहशयनाभोगः । तत्र मुक्तानि न्यस्तानि अखिलान्यङ्गानि यया सा तस्याः । मृदुतलं सुखस्पर्शपृष्ठभागं । मृदु सुखस्पर्शं तलं पृष्ठभागः यस्य तत् । इबेकवचनम्। गण्डोपधानं कपोलोपधानीयम् । गण्डस्य कपोलस्य उपधानं स्थापनाधारः गण्डोपधानम् । उपबर्हमित्यर्थः । अवष्टभ्य गाढमालिङ्ग्य त्वां भवन्तं ध्यायन्त्याः ध्यानविषयतां नयन्त्याः तस्याः वसुन्धराचर्याः किन्नरकन्यकायाः लम्बालकत्वात् स्नेहाभ्यञ्जनादिसंस्काराभावेन लम्बमानालकत्वात् । असकलव्यक्ति असम्पूर्णाभिव्यक्ति | न सकला सम्पूर्णा असकला | असम्पूर्णेत्यर्थः । असकला व्यक्तिः अभिव्यक्तिः प्रकाशः यस्य तत्। हस्तन्यस्तं करकमलनिक्षिप्तं । हस्ते न्यस्तं न्यासीकृतं हस्तन्यस्तं मुखं वदनम् । त्वदुपसरणाक्लिष्टकान्तेः भवदीयेन उपसरणेन शिशिरकिरणकिरणप्रसारणमार्गोपरोधेन म्लानच्छायस्य । तव उपसरणं त्वदुपसरणं । तेन क्लिष्टा म्लाना कान्तिः उद्योतः ज्योत्सा वा यस्य सः । तस्य । इन्दोः चन्द्रमसः दैन्यं दुर्दशां । दुर्दर्शनत्वमित्यर्थः बिभर्ति धारयति इति शङ्क सम्भावयामि । I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy