________________
३०२
निद्रापायाद्रजनिषु मुहुस्तावकं सम्प्रयोगं दिध्यासोः स्याद्वदनमपरं त्विन्दुबिम्बानुकारि ।
[ पार्श्वाभ्युदये
नूनं तस्याः प्रबलरुदितोच्छून नेत्रं बहूनां निश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ॥ २६ ॥
अन्वयः - रजनिषु मुहुः तावकं सम्प्रयोगं दिध्यासोः निद्रापायात् इन्दुबिम्बानुकारि, प्रबलरुदितोच्छूननेत्रं, बहूनां निश्वासानां अशिशिरतया भिन्नवर्णाधरोष्ठं तु तस्याः वदनं नूनं अपरं स्यात् ।
,
८
>
निद्रापायादित्यादि । रजनिषु निशासु मुहुः पुनः पुनः । पौनःपुन्येनेत्यर्थः । तावकं त्वदीयं । तव अयं तावकः । तम् । ' तवकममकमेकार्थे ' इत्यञ् अकडादेशश्च । सम्प्रयोगं संयोगं । सङ्गममित्यर्थः । दिध्यासोः ध्यातुमिच्छोः । C 'तुमीच्छायां घोर्वोप्' इति सन् । सन्भिक्षाशंसादुः इत्युः । निद्रापायात् स्वापापगमात् । निद्रायाः स्वापस्य अपायः अपगमः निद्रापायः । तस्माद्धेतोः । तावत्र का । रिरंसायाः हेतोः तस्याः वृषस्यन्त्याः स्त्वयामा मुहुर्मुहुः संयोगमभिलषन्त्याः निशासु निद्रायाः विद्रवाद्धेतोरित्यर्थः । कामिनां कामिनीनां वा कामवासना कुलस्वान्तानां विद्राणावस्था जायते इति जनप्रसिद्धम् । इन्दुबिम्बानुकारि चन्द्रबिम्बसदृशं । इन्दोश्चन्द्रमसः बिम्बं मण्डलं इन्दुबिम्बं । तदनुकरोतीति इन्दुबिम्बानुकारि । 'शीलेsजातौ णिन् ' इति णिन् । प्रबलरुदितोच्छूननेत्रं प्रबल रोदनजनितशोथनयनं । प्रबलं बहुलं च तद्रुदितं रोदनं च प्रबलरुदितं । तेन उच्छूने जनितशोथे नेत्रे नयने यस्य तत् । 'टुओश्वि गतिवृद्ध्योः' इत्यस्माद्धोरोदित्त्वात्क्तस्य तकारस्य ' ओदितः ' इति नः । श्वद्यतेर्यजादित्वाद्यणः इकि पूर्वरूपे च हलो यणिकः' इति यणिगन्तस्य दी: 1 बहूनां विपुलानां निश्वासानां उच्छ्रासानां अशिशिरतया औष्ण्येन । कामाभिलाषजनितान्तस्तापोष्मणेत्यर्थः । भिन्नवर्णाधरोष्ठं विच्छायाधरोत्तरोष्ठं । भिन्नः विकृति प्राप्तः वर्णः च्छाया ययोः तो भिन्नवर्णों । विकृतरक्तवर्णावित्यर्थः । अधरश्चौष्ठश्चाधरोष्ठौ । ओष्ठशब्दोऽत्रोत्तरोष्ठार्थवचनः, अधरशब्दसान्निध्यात् । ( ओष्ठशब्दः ) ' अधरसान्निध्यादुत्तरौष्ठेऽत्र वर्तते' इत्यमरटीकायां क्षीरस्वामी । भिन्नवर्णो अधरौष्ठो यस्य तद्भिन्नवर्णाधरौष्ठम् ।' ओष्ठाधरौ तु रदनच्छदौ दशनवससी ' इत्यमरः । तु पादपूरणे । तु पादपूरणे भेदावधारणसमुच्चये । पक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे' इति विश्वलोचने । तस्याः वसुन्धराचर्याः किन्नर्याः वदनं मुखं नूनं निश्चयेन अपरं रूपपरिणतेः पूर्वस्माद्रूपाद्रूपान्तरतां प्राप्तं स्यात् भवेत् ।
6
6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org