SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः] ३०१ कान्तिः, चिन्ताक्शात् अपचिता, सालसापाङ्गवीक्षा विरुक्षा तस्याः तनुः शिशिरमथिता पद्मिनी इव अन्यरूपा जाता (भवेत् इति ) मन्ये ।। __ तस्या इत्यादि । पीनस्तनतटभरात् मांसलोरोजतटभरात् । पीनौ मांसलो च तो स्तनतटौ च पीनस्तनतटौ । तयोः भरः भारः पीनस्तनतटभरः। तस्मात् । हेतावत्र का। 'भरस्त्वतिशये भारे' इति विश्वलोचने । सामिनम्राग्रभागा ईषद्विनतोर्वभागा। सामि ईषत् नम्रः नतः अग्रभागः ऊर्श्वभागः यस्याः सा । ईषदवनतपूर्वकायेत्यर्थः। ' नम्कम्पिस्म्यजस्कम् हिंसदीपो र: ' इति ः। निश्वासोष्णप्रदवितमुखाम्भोज कान्तिः निश्वासोष्मजनितग्लानिमुखकमलशोभा । निश्वासस्य उष्णः ऊष्मा निश्वासोष्णः। तेन प्रदविता सञ्जातप्रदवा मुखाम्भोजकान्तिः यस्याः सा । प्रदवः ग्लानिः दाहः वा सञ्जातः अस्याः सा । ' तदस्य सञ्जातं तारकादिभ्यः इतः' इतीतः । प्रदूयतेऽनेनेति प्रदवः । 'पुंखौ घः प्रायः' इति करणे घः। मुखमम्भोज कमलमिव मुखाम्भोजे । तस्य कान्तिः शोभा तेजः वा । 'सामान्येनोपमान' इति सः । यद्वा मुखमेवाम्भोजमिति विग्रहः । चिन्तावेशात् चिन्तानिमजनात् । चिन्तायां आवेशः निमज्जनं चिन्तायाः आवेशः आक्रमणं वा चिन्तावेशः। तस्मात् । अपचिता कृशीभूततनुः । सालसापागवीक्षा सालसकटाक्षनिक्षेपा। अपाङ्गेन नेत्रान्तेन वीक्षा दर्शनं अपाङ्गवीक्षा । कटाक्षः इत्यर्थः। 'अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने' इत्यमरः । अलसेन सहिता सालसा । सहस्य सादेशः । सालसा अपाङ्गवीक्षा यस्याः सा सालसापाङ्गवीक्षा। विरुक्षा गलितसौन्दर्या विगलितानन्दा वा। विशेषेण रूक्षा गलितसौन्दयो विरुक्षा। 'रूक्षस्त्वप्रेम्ण्यचिकणे' इत्यमरः। तस्याः धृतकिन्नरीरूपायाः वसुन्धराचर्याः । तनुः शरीरं शिशिरमथिता शिशिरर्तुपीडिता तुषारपीडिता वा पद्मिनी इव कमलिनी इव । कमलवल्लरीव । अन्यरूपा परिणतपूर्वाकृतिः। अन्यत् रूपं शरीराकारः यस्याः सा।' रूपमाकारसौन्दर्यस्वभावश्लोकनाणके। नाटकादौ मृगे ग्रन्थावृतौ च पशुशब्दयोः' इति विश्वलोचने। जाता सम्भूता । भवेत् इति मन्ये तर्कयामि । I think that her body, with its upper part bent down a little owing to the burden of her corpulent breasts, having the beauty of her lotus-like face spoiled by the heat of the puffs of breath, emaciated on account of the mental disturbance caused by anxiety, casting dull sideglances, deprived of pleasure, might have become changed in form like a lotus-creeper afflicted (blighted ) by frost. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy