SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ३०० मय्यायाते करकिसलयन्यस्तवक्त्रेन्दुमुग्धा त्वामेवाहर्निशमभिमनाश्चिन्तयन्ती वियोगात् । याता नूनं बत तव दशामाशु मर्तव्यशेषां गाढोत्कण्ठागुरुषु दिवसेष्वेषु गच्छत्सु बाला ॥ २४ ॥ अन्वयः मयि आयाते एषु गाढोत्कण्ठागुरुषु दिवसेषु गच्छत्सु कराराकेसल - यन्यस्तवक्त्रेन्दुमुग्धा, अभिमनाः त्वां एव अहर्निशं चिन्तयन्ती बाला तव वियोगात् बत मर्तव्यशेषां दशां नूनं याता [ भवेत् ] | मीत्यादि । मयि शम्बराभिधाने गुह्यके आयाते अलकां विमुच्याऽत्रागते एषु एतेषु । गाढोत्कण्ठागुरुषु तीव्रया उत्कण्ठया दीर्घीभूतेषु । दिवसेषु दिनेषु गच्छत्सु व्यतीयमानेषु कर किसलयन्यस्तवक्त्रेन्दुमुग्धा किसलय कोमलकरतलनिहितचन्द्रोपममुखमनोहरा । करः किसलयः इव कर किसलयः । ' सामान्येनोपमानं ' इति सः । तत्र न्यस्तः वक्त्रेन्दुः कर किसलयन्यस्तवक्त्रेन्दुः । वक्त्रमेवेन्दुः वक्त्रेन्दुः । तेन मुग्धा मनोहरा । अभिमनाः सोत्कण्ठमनाः त्वां एव भवन्तं एव अहर्निशं दिवानिशं चिन्तयन्ती ध्यानविषयतां नयन्ती बाला तरुणी तव भवतः वियोगात् विरहात् । विरहजनितदुःखेनेत्यर्थः । बत हन्त । C बत खेदे | 'कृपानिन्दा सन्तोषाऽऽ मन्त्रणाद्भुते' इति विश्वलोचने । मर्तव्यशेषाम् मरणावशिष्टां । नवमीमित्यर्थः । मर्तव्यं मरणं शेषं यस्याः सा । ताम् । दशां अवस्थां नूनं निश्चयेन याता प्राप्ता । भवेदिति शेषः । wi On my coming ( here ), the young one, looking beautiful owing to her moonlike face reposed in her sprout-like hand, meditatiug upon you alone day and night owing to her desire (or attachment) for you, might have surely attained to the state in which death alone is left out owing to your separation ( from her ), when these days, become long owing to her being love-sick, are passing away. [ पार्श्वाभ्युदये तस्याः पीनस्तनतटभरात्सामिनम्राग्रभागा निश्वासोष्ण प्रदवित मुखाम्भोजकान्तिर्विरूक्षा | चिन्तावेशात्तनुरपचिता सालसापाङ्गवीक्षा जाता मन्ये शिशिरमथिता पद्मिनीवान्यरूपा ॥ २५ ॥ पीनस्तनतटभरात् सामिनम्राग्रभागा, निश्वासोष्ण प्रदवितमुखाम्भोज अन्ययः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy