SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः] २९९ गमने बद्धकामां साभिलाषां । बद्धः कामः अभिलाषः यया सा। ताम् । प्रणयविवशां कामवासनया हेतुभूतया अगतिका । प्रणयात् प्रणयेन वा विवशा अगतिका प्रणयविवशा। ताम् । परिमितकथां नियमितवाचं । वाचंयमामित्यर्थः । सख्यानीतैः सखीभिरानीतैः सरसकदलीगर्भपत्रोपवीज्यैः प्रत्यग्ररम्भान्तर्गतपत्रवीजनैः । सरसा प्रत्यग्रा चासो कदली रम्भा च सरसकदली। तस्याः गर्भपत्राणि एव उपवीज्यानि। तैः। उपवीज्यते अनेन इति उपवाज्य। 'व्यानबहुलं' इति करणे व्यः। उपवीजैरिति पाठोऽपि समीचीनः । उपवीज्यतेऽनेनेनि उपवाजः । तैरुपवीजैः । 'पुंखा घः प्रायः' इति करणे घः । लब्धाश्वासां विच्छिन्नक्लमां प्रत्यागतचैतन्यां वा । लब्धः पुनः प्राप्तः आश्वासः चैतन्य यया सा । किमपि किमपि असम्बद्धं मिलष्टवणं अव्यक्तवर्णं । म्लिष्टाः वर्णाः यथा स्युः तथा । म्लिष्टाः अव्यक्ताः इत्यर्थः । ‘म्लिष्टं स्याद्वाच्यवन्माने म्लिष्टमव्यक्तभाषणे' इति विश्वलोचने । व्यतार्थत्वादस्मत्परिवर्तितोऽयं पाठः। मुद्रितपाठस्तु श्लिष्टवर्णमित्यास्ता तस्व संयुक्तवर्णमित्यर्थः। पदस्थसंयुक्तसर्ववर्णोच्चारणमव्यक्तं यथा भवति तथेति भावः । लपन्तीं ब्रुवाणां। शीर्णप्रायां अपचितप्रायगात्रयष्टिं आवयोः तव मम च बद्धसाम्यात् जन्मजनिताकारसादृश्यात् सहचरे प्रियकरे दूरीभूते प्रोषिते एका एकाकिनीं। अद्वितीयामित्यर्थः। चक्रवाकी इव चक्रवाककान्तामिव सहचरे सहचरतुल्ये। सहचरः इव सहचरः । तस्मिन् । दूरीभूते प्रोषिते मयि शम्बरासुरे विरहविधुरां विरहदुखितां एका एकाकिनी त्वं जानीयाः जानीहि । 'जीवितं मे द्वितीयं' इति भ्रातुः बन्धोः वाक्यात् अन्यथा अन्यप्रकारेण वितर्य सञ्चित्य अलं पर्याप्तम् । 'जीवितं मे द्वितीयं' इति भ्रातुर्मम वचनात् सा वसुन्धराचरी किन्नरीत्वरिकेति मा मंस्थाः इति भावः। You should identify her, a faithful one having her mind restrained through vows, having no enthusiasm for a person other than you, attained to the age of maidenhood amongst her female friends, cherishing a strong desire for your arrival, reduced to helplessness through passion, having a curb put upon her speech, brought to her senses by the fans in the form of tender leaves of the fresh plantain trees brought by her female friends, speaking at random indistincty, standing on the verge of death, the lonely one, subjected to severe strain owing to the separation caused by being far away by me who am just like you, her beloved, owing to our mutual resemblance, like the lonely female Cakrawaka owing to her beloved being far away. On the authority of your brother's utterances ' ( she is) my second soul,' you should not think otherwise of her (lit. enough of thinking otherwise of her ). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy