SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ २९८ [ पार्श्वाभ्युदये ताम् । धारयन्ती विभ्राणा साक्षात् रतिः इव प्रत्यक्षभूता रतिदेवीव मनोहारिणी सौन्दर्यसम्पन्ना तत्र अलकानगरीं गत्वा प्राप्य त्वया भवता ज्ञेया नेत्रेन्द्रिय प्रत्यक्षेण ज्ञातव्या । Having gone there, she, the first-rate of the Creator's creations of young women in the whole class of the Kinnara-women, wearing diverse constumes [and] manifesting various feminine gestures indicative of amorous sentiments, attractive like Rati herself, reduced to the state bringing her into subjection to the strong emotion of love, should be ascertained by you. साध्वीं चित्ते विधिनियमितामन्य पौंस्ने निराशां कन्यावस्थां त्वदुपगमने बद्धकामां सखीनाम् । भ्रातुर्वाक्यात्प्रणयविवशां त्वं वितयन्यथाऽलं तां जानीयाः परिमितकथां जीवितं मे द्वितीयम् ।। २२ ।। सख्यानीतैः सरसकदलीगर्भपत्रोप वीज्यैः लब्धावासां किमपि किमपि ग्लिष्टवर्ण लपन्तीम् । शीर्णप्रायां विरहविधुरामावयोर्बद्धसाम्या हरीभूते मीय सहचरे चक्रवाकीमिवैकाम् ॥ २३ ॥ अन्वयः --- साध्वीं चित्ते विधिनियमितां, अन्य पौंस्ने निराशां, सखीनां कन्यावस्थां त्वदुपगमने बद्धकामां, प्रणयविवशां परिमितकथां, सख्यानीतैः सरसकदलीगर्भपत्रोपवीज्यैः लब्धाश्वासां, किमपि किमपि मिलष्टवर्ण लपन्तीं शीर्णप्रायां, आवयोः बद्धसाम्यात् सहचरे दूरीभूते एकां चक्रवाक इव मयि दूरीभूते विरहविधुरां एकां तां त्वं जानीयाः । ' जीवितं मे द्वितीयं ' इति भ्रातुः वाक्यात् अन्यथा वितर्य अलम् । h साध्वीमित्यादि श्लोकद्वयम् । साध्वीं अक्षतशीलसम्पन्नामत एवैकपत्नीमित्यर्थः । ' सती पतिव्रता साध्वी पतिवल्ये कपत्न्यपि ' इति धनञ्जयः । चित्ते मनसि विधिनियमितां शास्त्रोक्तव्रतविधिनियन्त्रितविकारां । शास्त्रोक्तत्रताद्याचरणनियन्त्रितशृङ्गाररसजमनोविकारामित्यर्थः । अन्य पौंस्ने स्वपतिभिन्नपुरुषे । पुंसः भावः पौंस्नं । ' त्ये वा ' इति त्वत्ये विषये नष्ट् । पौंस्नं पुरुषत्वं अस्य अस्तीति पौंस्नः । ओऽ * भ्रादिभ्यः' इत्यत्यः । अन्यः पौनः अन्य पौंस्नः । तस्मिन् । निराशां आशावशातीतां सखीनां सखीषु । निर्धारणे ता । कन्यावस्थां कुमार्यवस्थाम्। त्वदुपगमने भवदा ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy