SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः] Brought into subjection by the god of love (or subdued by passion ), she, with her speed slowed down owing to the weight of her buttocks, bent down a little owing to her breasts, was seen oft-times going away from there (i. e. the place where the moon-stone-slab was lying ), when her eyesight was obstructed by the tears gathered in her eyes at the time when she was engrossed in meditating upon you represented in drawing with a desire to look at you with your friend, upon a moon-stone-slab. कामावस्थामिति बहुतिथीं धारयन्ती त्वयाऽसौ ज्ञेया साक्षादतिरिव मनोहारिणी तत्र गत्वा । नानावषे बहुविलसिते किन्नरस्त्रीसमाजे या तत्र स्यायुवतिविषया सृष्टिराद्येव धातुः ॥२१॥ अन्वयः -- तत्र नानावषे बहुविलसिते किन्नरस्त्रीसमाजे या धातुः युवतिविषया आद्या सृष्टिः इव स्यात् सा असौ इति बहुतिथीं कामावस्थां धारयन्ती साक्षात् रतिः इव मनोहारिणी तत्र गत्वा त्वया शेया । ___ कामावस्थामित्यादि । तत्र अलकानगों नानावेषे बहुविधनेपथ्यभूषिते । नाना बहुविधाः वेषाः वस्त्रालङ्कारादयः यस्य तस्मिन् । बहुविलसिते अनेकविधरम्योक्तिस्मितवीक्षिते । बहूनि बहुविधानि विलसितानि हावाः यस्य तस्मिन् । विलसितं विलासः। 'नब्भावे क्तोऽभ्यादिभ्यः' इति भावे क्तः नप् च । 'विलासो हावलीलयोः' इति विश्वलोचने। 'हावः शृङ्गारभावाप्ती रम्योक्तिस्मितवीक्षितं । शङ्गारप्रौढिमा हेला हेवाको यौवने हि यः।' 'प्रियस्यानुकृतिर्लीला श्लिष्टा वाग्वेषचेष्टितैः' इति नाट्यशास्त्रे भरतमुनिः। किन्नरस्त्रीसमाजे यक्षस्त्रीसमवाये या वसुन्धराचरी धातुः वेधसः । कविसमयानुकूलेयमुक्तिनं सिद्धान्तपद्धतिमनुसृत्य । युवतिविषया युवतिसम्बन्धिनी। युवतिस्तरुणी । सा विषयः गोचरः यस्याः सा युवतिविषया। 'विषयो गोचरे देशे इन्द्रियार्थेपि नीवृति' इति विश्वलेोचने । आद्या प्रथमभूता सृष्टिः उत्पत्तिः इव स्यात् भवेत् सा असौ सा एषा इति एतस्माद्धेतोः बहुतिथीं भूयिष्ठाम् । अत्युद्रिक्तामित्यर्थः । 'बहुपूगगणसङ्घस्य तिथुक् ' इति वैपुल्यपूरणेऽर्थे डटि तिथुक्। 'इन्टिाडणञ्-' इति टित्त्वात् डी । बहुशब्दोऽत्र वैपुल्यार्थवचनः, न सङ्ख्यार्थवचनः । बहोर्वैपुल्यस्य पूरणी बहुतिथी। ताम् । कामावस्थां कामवासनाजनितामवस्थां । कामस्य अवस्था दशाविशेषः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy